संस्कृत-शब्दकोशः

याप्ता याप्ययान

याप्य

वाचस्पत्यम्

याप्य ||‍ त्रि० या—णिच्—ण्यत् । १ निन्द्ये २ अधमे अमरः । ३ क्षेपणीये मेदि० । निःशेषमप्रतिकार्य्ये उपशमनीये ४ रोगभेदे च भावप्र० तत्र तल्लक्षणादिकमुक्तं यथा “यापनीयन्तु तं विद्यात् क्रियां धारयते हि यः । क्रियायान्तु निवृत्तार्या सद्यो यश्च विनश्यति । प्राप्ता क्रिया धारयति सुस्विनं याप्यमातुरम् । प्रपतिष्य दिवागारं स्तम्भो यत्नेन योजितः । साध्या याप्यत्व- मायान्ति याव्याश्चासाध्यतां तथा । घ्नन्ति प्राणानसा- ध्यास्तु नराणामक्रियावताम्” ।


शब्दकल्पद्रुमः

याप्यः || त्रि (यापि + यत् ।)
अधमः । निन्दितः । इत्यमरः । ३ । १ । ५४ ॥ (यथा, बृहत्संहितायाम् । १९ । २२ । “यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिः शुभफलमपि चैवं याप्यमन्योऽन्यतायाम् ॥”)
यापनीयः । (यथा, सुश्रुते निदानस्ताने प्रथमे अध्याये । “शोणितं तदसाध्यं स्यात् याप्यं संवत्सरोत्थि- तम् ॥”)
क्षेपणीयकालादिः । इति मेदिनी । ये, ४८ ॥ व्याधिविशेषः । यथा, —
“साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः । सुखसाध्यः कष्टसाध्यो द्बिविधः साध्य उच्यते ॥ याप्यलक्षणमाह । यापनीयन्तु तं विद्यात् क्रियां धारयते हिताम् । क्रियायान्तु निवृत्तायां सद्यो यश्च विनश्यति ॥ प्राप्ता क्रिया धारयति सुखिनं याप्यमातुरम् । प्रपतिष्यदिवागारं स्तम्भो यत्नेन योजितः ॥ साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा । घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ॥ अक्रियावतां चिकित्सारहितानाम् ।” इति भावप्रकाशः ॥



Correction: