शब्दकल्पद्रुमः
यामिकभटः || पुं, (यामे यामे नियुक्तः । याम + ठक् । स चासौ भटश्चेति ।)
प्रहरिकः । चौकी- दार इति भाषा । यथा, —
“उन्नादाम्बुदवर्द्धितान्धतमसः प्रभ्रष्टदिङ्मण्डले काले जाग्रदुदग्रयामिकभटप्रारब्धकोलाहले । कर्णस्यासुहृदर्णवाम्बुवडवावह्नेर्यदन्तःपुरा- दायातासि यदम्बुजाक्षि ! कृतकं मन्ये भयं योषिताम् ॥” इति कर्णाटः ॥