संस्कृत-शब्दकोशः

यामिकभट यामित्रवेध

यामित्र

वाचस्पत्यम्

यामित्र is an alternate of जामित्र. जा(या)मित्र ||‍ न० “जा(या)मित्रं सप्तमं स्थानम्” ज्योतिष- परिभाषिते लग्नात् सप्तमे स्थाने । “तिथौ च जा(या) मित्रगुणान्वितायाम्” कुमा० । उपचारात् तिथेस्तत्साहित्यम्


वाचस्पत्यम्

यामित्र ||‍ न० ज्योतिषोक्ते लग्नराशिभ्यां सप्तमे स्थाने ।


शब्दकल्पद्रुमः

यामित्रं || क्ली लग्नात् सप्तमराशिः । यथा, —
“धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् । द्युनं द्यूनं तथास्ताख्यं षट्कोणं रिपुमन्दिरम् ॥” यामित्रवेधो यथा, —
“पापात् सप्तमगः शशी यदि भवेत् पापेन युक्तोऽथवा यत्नेनाशु विवर्जयन्मुनिमतो दोषोऽप्ययं कथ्यते । यात्रायां विपदो गृहे सुतवधः क्षौरेषु रोगोद्- भवो- ऽप्युद्वाहे विधवा व्रते तु मरणं शूलञ्च पुंस्कर्म्मणि ॥ रविमन्दकुजाक्रान्त्रं मृगाङ्कात् सप्तमं त्यजेत् । विवाहयात्राचूडासु गृहकर्म्मप्रवेशने ॥” इति यामित्रवेधः ॥ * ॥
अस्य प्रतिप्रसवो यथा । “मूलत्रिकोणनिजमन्दिरगोऽथ पूर्णो मित्रर्क्षसौम्यगृहगोऽथ तदीक्षितो वा । यामित्रवेधविहितानपहृत्य दोषान् दोषाकरः सुखमनेकविधं विधत्ते ॥” इति ज्योतिस्तत्त्वम् ॥



Correction: