वाचस्पत्यम्
यामिनी || स्त्री यामाः त्रिसंख्याताः सन्त्यस्य बाहुल्ये इनि । १ रात्रौ २ हरिद्रायाञ्च अमरः ।
शब्दकल्पद्रुमः
यामिनी || स्त्री (यामाः सन्त्यस्याम् । याम + इनिः । ङीप् ।)
रात्रिः ॥ (यथा, महाभारते । १२ । ५३ । १ । “ततः शयनमाविश्य प्रसुप्तो मधुसूदनः । याममात्रार्द्धशेषायां यामिन्यां प्रत्यबुध्यत ॥”)
हरिद्रा । इत्यमरः । १ । ४ । ४ ॥ (कश्यपपत्नी । यथा, भागवते । ६ । ६ । २१ । “तार्क्षस्य विनता कद्रुः पतङ्गी यामिनीति च । पतङ्ग्यसूत पतगान् यामिनी शलभानथ ॥” प्रह्लादस्य द्वितीया तनया । यथा, कथासरित्- सागरे । ४६ । २२ । “प्रह्लादो यामिनीं नाम द्वितीयां तनयां ददौ ॥”)