शब्दकल्पद्रुमः
याम्या || स्त्री (यमस्येयं यमो देवतास्या इति वा । यम + “यमाच्चेति वक्तव्यम् ।” ४ । १ । ८५ । इति वार्त्तिकोक्त्या ण्यः । टाप् ।)
दक्षिणदिक् । (यथा, रामायणे । २ । १०३ । २६ । “प्रगृह्य तु महीपालो जलपूरितमञ्जलिम् । दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥”)
भरणीनक्षत्रम् । इति मेदिनी । ये, ४८ ॥ (यमसम्बन्धिनि, त्रि । यथा, महाभारते । २ । ८ । १ । “कथयिष्ये सभां याम्यां युधिष्ठिर ! निबोध ताम् । वैवस्वतस्य यां पार्थ ! विश्वकर्म्मा चकार ह ॥”)