संस्कृत-शब्दकोशः

याम्योद्भूत यायावर

यायजूक

वाचस्पत्यम्

यायजूक ||‍ पु० यज—यङ्—ऊक । पुनःपुनःयागशीले अमरः ।


शब्दकल्पद्रुमः

यायजूकः || पुं, (पुनः पुनर्यजति । यज् + यङ् । “यजजपदशां यङः ।” ३ । २ । १६६ । इति ऊकः ।)
पुनःपुनर्यागकर्त्ता । तत्पर्य्यायः । इज्याशीलः । इत्यमरः । २ । ७ । ८ ॥ (यथा, रामायणे । २ । ७२ । १५ । “या गतिः सर्व्वभूतानां तां गतिं ते पिता गतः । राजा महात्मा तेजस्वी यायजूकः सतां गतिः ॥”)



Correction: