संस्कृत-शब्दकोशः

यायजूक याव

यायावर

वाचस्पत्यम्

यायावर ||‍ पु० देशाद्देशान्तरं याति या—यङ्—वरच् । १ अश्व मेधोयाश्वे जटा० तस्य नानादेशगमनत्वात्तथात्वम् २ जर- त्कारुमुनौ च त्रिका० । ३ भूशवक्रगमनशीले त्रि० ।


शब्दकल्पद्रुमः

यायावरः || पुं, (पुनःपुनरतिशयेन वा याति देशा- द्देशान्तरं गच्छतीति । या + यङ् । “यश्च यङः ।” ३ । २ । १७६ । इति वरच् ।)
अश्वमेधीयाश्वः । इति जटाधरः ॥ जरत्कारुमुनिः । इति त्रिकाण्ड- शेषः ॥ (ऋषीणां गणविशेषः । यथा, महा- भारते । १२ । २४३ । १७ । “तात प्रत्यक्षधर्म्माणस्तथा यायावरा गणाः ॥” जरत्कारुमुनिरेवैतद्बंशीयः । यथा, महाभारते । १ । १३ । ११ । “जरत्कारुरिति ख्यात ऊर्द्ध्वरेता महातपाः । यायावराणां प्रवरो धर्म्मज्ञः संशितव्रतः ॥”)
त्रि, पुनःपुनर्गमनशीलः । यथा, —
“यायावराः पुष्पफलेन चान्ये प्रानर्च्चुरर्च्या जगदर्च्चनीयम् ॥” इति भट्टिः । २ । २० ॥ (क्ली, याच्ञा । यथा, भागवते । ७ । ११ । १६ । “वार्त्ता विचित्रा शालीनयायावरशिलोञ्छनम् । विप्रवृत्तिश्चतुर्द्धेयं श्रेयसी चोत्तरोत्तरा ॥” “यायावरं प्रत्यहं धान्ययाच्ञा ।” इति तत्र श्रीधरस्वामी ॥)



Correction: