वाचस्पत्यम्
यावनाल || पु० यवनाल एव स्वार्थे अण् । धान्यभेदे (जनार) राजनि० ।
शब्दकल्पद्रुमः
यावनालः || पुं, (यवनाल एवेति । यवनाल + स्वार्थे अण् ।)
धान्यविशेषः । जोयार इति भाषा । तत्पर्य्यायः । यवनालः २ शिखरी ३ वृत्त- तण्डूलः ४ दीर्घनालः ५ दीर्घशरः ६ क्षेत्रेक्षुः ७ इक्षुपत्रकः ८ । तस्य गुणाः । धवलत्वम् । गौल्यत्वम् । बल्यत्वम् । त्रिदोषजित्त्वम् । वृष्य- त्वम् । रुच्यत्वम् । अर्शो यक्ष्मगुल्मव्रणनाशित्वञ्च । इति राजनिर्घण्टः ॥