शब्दकल्पद्रुमः
यावसः || पुं, (यूयते इति । यु + “वहियुभ्यां णित् ।”) उणा० ३ । ११९ । इति असच् । तस्य णित्त्वञ्च । यद्बा, यवसानां समूहः । यवस + “तस्य समूहः ।” ४ । २ । ३७ । इत्यण् ।) यवससमूहः । इति सिद्धान्तकौमुदी ॥