वाचस्पत्यम्
यास || पु० यस—कर्त्तरि संज्ञायां घञ् । १ दुरालभायाम् अमरः भावे घञ् । २ प्रयासे ।
शब्दकल्पद्रुमः
यासः || पुं, (यस + घञ् ।)
दुरालभा । इत्यमरः । २ । ४ । ९१ ॥ (यथा, —
“यासो यवासो दुःष्पर्शो धन्वयासः कुनाशकः । दुरालभा दुरालम्भा समुद्रान्ता च रोदिनी ॥ गान्धारी कच्छुरानन्ता कषाया दुरभिग्रहा । यासः स्वादुः सरस्तिक्तस्तुवरः शीतलो लघुः ॥ कफमेदोमदभ्रान्तिपित्तासृक्कुष्ठकासजित् । तृष्णाविसर्पवातास्रवमिज्वरहरः परः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)