संस्कृत-शब्दकोशः

युगल युगलाख्य

युगलमन्त्र

शब्दकल्पद्रुमः

युगलमन्त्रः || पुं, (युगलाख्यो मन्त्रः । शाकपार्थिववत् समासः ।)
लक्ष्मीनारायणमन्त्रः । यथा, —
“इदं रहस्यं परमं लक्ष्मीनारायणाह्वयम् । राजंस्तवापि वक्ष्यामि प्रपत्तिं शरणागतिम् ॥ द्बयात् परतरो मन्त्रो नास्ति सत्यं ब्रवीमि ते । द्वयात् परतरो धर्म्मो नास्ति लोकेषु कश्चन ॥ सर्व्वेषां कृष्णमन्त्राणां मध्ये युगलसंज्ञकम् । मन्त्रं हि सर्व्वतः श्रेष्ठं कृष्णजप्यमनुत्तमम् ॥ सर्व्वतो युगलं मन्त्रं कार्ष्णं परतरं नृप ! । गुह्याद्गुह्यतमं जातु ज्ञेयं तत्तदुपासकैः ॥” इति पाद्मोत्तरखण्डे २५ अध्यायः ॥



Correction: