वाचस्पत्यम्
युग्म || न० युज—भक् पृषो० जस्य ग । १ द्वित्वसंख्यान्विते (जोडा) युगले । “युम्बाग्निकृतभूतानि षण्मुन्योर्वसु- रन्ध्रयोः । रुद्रेण द्वादशी युक्ता चतुर्दश्याध पूर्णिमा । प्रतिपदाप्यमावस्या तिव्योर्युग्मं महाफलम्” इत्युक्ते २ तिथिविशेषयोगे ३ समराशिषु च ४ मिथुनराशौ च ज्यो०
शब्दकल्पद्रुमः
युग्मं || क्ली (युज्यते इति । युज् + “युजिरुचि- तिजां कुश्च ।” उणा० १ । १४५ । इति मक् ।)
द्वयम् । योडा इति भाषा । तत्पर्य्यायः । द्बन्द्वम् २ युगलम् ३ युगम् ४ । इत्यमरः । २ । ५ । ३८ ॥ (यथा, रामायणे । २ । ९१ । ७६ । “पादुकोपानहाञ्चैव युगान्यत्र सहस्रशः ॥”)
द्बितीयचतुर्थषष्ठाष्टमदशमद्वादशराशयः । यथा “क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च ओजोऽथ युग्मं विषमः समश्च । चरस्थिरद्ब्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः ॥” इति ज्योतिस्तत्त्वम् ॥ (द्बितीया ।)
मेलनम् । यथा, —
“युग्माग्निकृतभूतानि षण्मून्योर्व्वसुरन्ध्रयोः । रुद्रेण द्बादशी युक्ता चतुर्दश्याथ पूर्णिमा ॥ प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम् । एतद्ब्यस्तं महाघोरं हन्ति पुण्यं पुराकृतम् ॥ द्बितीयातृतीययोश्चतुर्थीपञ्चम्योः षष्ठीसप्तम्यो- रष्टमीनवम्योरेकादशीद्बादश्योः चतुर्द्दशीपौर्ण- मास्योः प्रतिपदमावास्ययोर्युग्मं मेलनम् । तत्त- त्तिथिमात्रनिमित्तके कर्म्मणि महाफलम् । एतत् प्रयोजनन्तु तिथिविशेषविहिते कर्म्मणि तिथिखण्डविशेषनियमनम् । स्वतिथ्या कर्म्मानि- र्व्वाहे सहायभावेनान्यतिथ्यनुप्रवेशादुपवासा- द्याचरणञ्च ।” इति तिथ्यादितत्त्वम् ॥ (द्बय- विशिष्टे, त्रि । यथा, मनुः । ३ । ४८ । “युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । तस्मात् युग्मासु पुत्त्रार्थीसंविशेदार्त्तवे स्त्रियम् ॥”)