संस्कृत-शब्दकोशः

युग्मादरणं युङ्गिन्

युग्य

वाचस्पत्यम्

युग्य ||‍ न० युगमर्हति युग + यत् । १ वाहने याने । युगं वहति यत् । २ युगवाहकेऽश्वादौ त्रि० अमरः ।


शब्दकल्पद्रुमः

युग्यं || क्ली (युगाय हितम् । युग + “उगवादिभ्यो यत् ।” ५ । १ । २ । इति यत् । युगमर्हतीति वा । दण्डादित्वात् यत् । यद्वा, युज्यत इति । युज् + “युग्यं च पत्त्रे ।” ३ । १ । १२१ । इति क्यबन्तो निपातितः ।)
वाहनम् । यानम् इत्यमरः । २ । ८ । ५८ ॥ (यथा, महाभारते । ३ । ५९ । ९ । “हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् । आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥” यथा च मनौ । ८ । २९३ । “यत्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य तु । तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ॥” वाच्यलिङ्गेऽपि दृश्यते । यथा, “युग्यो गौः । युग्योऽश्वः । युग्यो हस्ती ।” इति काशिका । ३ । १ । १२१ ॥)


शब्दकल्पद्रुमः

युग्यः || पुं, (युगं वहतीति । युग + “तद्बहति रथ- युगप्रासङ्गम् ।” ४ । ४ । ७६ । इति यत्प्रत्ययः ।)
युगवोढा । इत्यमरः । २ । ९ । ६४ ॥ (“रथं वहतीति रथ्यः युग्यः प्रासङ्ग्यः ।” इति काशिका ॥)



Correction: