संस्कृत-शब्दकोशः

युच्छ युजान

युज

वाचस्पत्यम्

युज ||‍ निन्दायां चु० आ० सक० सेट् । योजयते अयूयुजत ।


वाचस्पत्यम्

युज ||‍ बन्धने युतौ च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । योजयति ते योजति । अयूयुजत् त । अयोजीत् ।


वाचस्पत्यम्

युज ||‍ युतौ रु० उ० सक० अनिट् । युनक्ति युङ्क्ते इरित् अयुजत् अयौक्षीत् अयुक्त युयोज युयुजे । अजन्तोपसर्गात् उदश्च परस्मात् आत्म० । अनु + प्रश्ने सक० आ० । अनुयुङ्क्ते अनुयोगः । अभि + व्यवहारेणास्कन्दने (नालिशकरा) सक० आत्म० अभि- युङ्क्ते अभियोगः । उद् + आयोजने सक० उद्यमे अक० उद्युङ्क्ते उद्योगः । उप + भोजने सक० सम्बन्धभेदे अक० आत्म० उपयुङ्क्ते उपयोगः । नि + प्रेरणे सक० आत्म० नियुङ्क्ते । नियोगः । परि + अनु + दूषणाय प्रश्ने आत्म० सक० । पर्य्यनुयुङ्क्ते पर्य्यनुयोगः । प्र + उच्चारणे व्यवहारभेदे च सक० आत्म० प्रयुङ्क्ते प्रयोगः प्रति + प्रतिरूपे योगे सक० आ० प्रतियुङ्क्ते प्रतियोगः । सम् + संयोगे सक० प० संयुनक्ति संयोगः ।


वाचस्पत्यम्

युज ||‍ समाधौ दि० आत्म० अनिट् । युज्यते । युयुजे ।


शब्दकल्पद्रुमः

युज || इर् ध ञ औ युतौ । इति कविकल्पद्रुमः ॥ (रुधा०-उभ०-सक०-अनिट् ।)
इर्, अयुजत् अयौक्षीत् । ध, युनक्ति युङ्क्ते घृतेनान्नं लोकः । औ, योक्ता । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

युज || कि संयमे । युतौ । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।)
अन्तः- स्थाद्यादिः । कि, योजयति योजति । संयमो बन्धनम् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

युज || ङ क निन्दे । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-सक०-सेट् ।)
ङ क, योजयते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

युज || य औ ङ समाधौ । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-अक०-अनिट् ।)
समाधि- र्योग्यभावः । य ङ, स्वयमर्थे नियुज्यते । इति हलायुधः । औ, योक्ता । इति दुर्गादासः ॥



Correction: