वाचस्पत्यम्
युज् || त्रि० दि० युज क्विप् । १ समाधिमति । युक् युजौ । रु० युज क्विप् । २ संयोगवति त्रि० युङ् युञ्जौ युञ्जः इति भेदः चु० युज—निन्दे भावे क्विप् । ३ निन्दायाम् अव्य० ।
शब्दकल्पद्रुमः
युक् || [ज्] त्रि, (युज्यते समाधत्ते इति । युज्यौ ङ् समाधौ + क्विप् ।)
समाधिमान् । इति मुग्ध- बोधव्याकरणम् ॥ (युज्यते परस्परमिति ।)
युग्मम् । इति शब्दरत्नावली ॥ (यथा, मनुः । ३ । २७७ । “युक्षु कुर्व्वन् दिनर्क्षेषु सर्व्वान् कामान् समश्नुते । अयुक्षु तु पितॄन् सर्व्वान् प्रजां प्राप्नोति पुष्क- लाम् ॥”)
शब्दकल्पद्रुमः
युङ् || [ज्] त्रि, (युजिर् योगे + क्विन् । “युजेर- समासे ।” ७ । १ । ७१ । इति नुमागमः ।)
योगकर्त्ता । मेलनकर्त्ता । इति मुग्धबोध- व्याकरणम् ॥ (यथा, भट्टिकाव्ये । ६ । ११८ । “गुहाया निरगाद्वाली सिंहो मृगमिव द्युवन् । भ्रातरं युङ्भियः संख्ये घोषेणापूरयन्दिशः ॥” युग्मम् । यथा, मनौ । ३ । २७७ । “युक्षु कुर्व्वन् दिनर्क्षेषु सर्व्वान् कामान् समश्नुते । अयुक्षु तु पितॄन् सर्व्वान् प्रजां प्राप्नोति पुष्क- लाम् ॥” समः । स च छन्दसि द्वितीयचतुर्थपादरूपः । यथा, छन्दोमञ्जर्य्याम् । ३ । १ । “विषमे यदि सौ सलगा दले भौ युजि भाद्गुरुकावुपचित्रम् ॥”)
शब्दकल्पद्रुमः
युजौ || [ज्] पुं, (युज् + क्विप् ।)
अश्विनीकुमारौ । इति त्रिकाण्डशेषः ॥ नित्यद्बिवचनान्तोऽयम् ॥