संस्कृत-शब्दकोशः

युज् युत

युञ्जान

वाचस्पत्यम्

युञ्जान ||‍ पु० युज—शानच् । १ योगविशेषवति भावनासहकारेण सर्वपदार्थज्ञातरि भाषा० । २ रथसारथौ ३ विप्रे च मेदि० ।


शब्दकल्पद्रुमः

युञ्जानः || पुं, (युज् + शानच् ।)
सारथिः । विप्रः । इति मेदिनी । ने, ११३ ॥ भावनासहकारेण सर्व्वज्ञः । यथा, —
“योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः । युक्तस्य सर्व्वदा भानं चिन्तासहकृतोऽपरः ॥” इति भाषापरिच्छेदे । ६५ ॥ “युक्तस्यति । योगाभ्यासावगत्या वशीकृतसमाधि- समासादितो विविधसिद्धयुक्त इत्युच्यते अयमेव विशिष्टयोगवत्त्वात् युक्त इत्युच्यते । सर्व्वदेति चिन्तासहकारं विनेत्यर्थः । भानं सर्व्वविषयाणां प्रत्यक्षम् । अपरो युञ्जानः । विषयव्यावृत्त्या मानससमाधिस्थः । अयञ्च युञ्जान उच्यते । चिन्ता ध्यानं तदेव कारणं तत्सहकारात् स्थूलसूक्ष्मव्यवहितविप्रकृष्टान् अर्थान् मनः प्रत्यक्षीकरोतीत्यर्थः ।” इति सिद्धान्तमुक्तावली ॥



Correction: