संस्कृत-शब्दकोशः

युध् युप

युध्म

शब्दकल्पद्रुमः

युध्मः || पुं, (युध्यते इति युध्यते येनेति वा । युध् + “इषियुधीन्धिदसिश्याधूसूभ्यो मक् ।” उणा० १ । १४४ । इति मक् । संग्रामः । धनुः । इति मेदिनी ॥ वाणः । इत्युणादिकोषः ॥ योद्धा । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, ऋग्वेदे । १ । ५५ । ५ । “स इन्महानि समिथानि मज्मना कृणोति युघ्म ओजसा जनेभ्यः ॥” “युध्मः योद्धा ।” इति तद्भाष्ये सायणः ॥)
शेष- संग्रामः । शरभः । इति संक्षिप्तसारोणादिवृत्तिः ॥



Correction: