शब्दकल्पद्रुमः
युवजानिः || पुं, (युवतिर्जाया यस्येति । “जायया- निङ् ।” ५ । ४ । १३४ । इति निङ् ।) युवतीपतिः । यथा, “युवजानिर्धनुष्पाणिर्भूमिष्ठः खविचारिणः । रामो यज्ञद्रुहो हन्ति कालकल्पशिलीमुखः ॥” इति भट्टिः । ५ । १३ ॥