वाचस्पत्यम्
युव(ति)ती || स्त्री युवन् + ति ङीप् वा । १ यौवनवत्यां स्त्रि- याम् शब्दर० । युवन्—ङीप् । यूनीत्यप्यत्र । २ स्त्री- मात्रे भागुरिः ३ हरिद्रायां शब्दच० ।
शब्दकल्पद्रुमः
युवती || स्त्री (यु + शतृ + ङीप् । इति सिद्धान्त- कौमुदी । ४ । १ । ७७ । कृदिति ङीष् । इत्यु- ज्ज्वलदत्तः । १ । १५६ ।)
प्राप्तयौवना । यथा, बृहत्संहितायाम् । ७५ । ४ । “यो यं विचिन्तयति यानि स तन्मयत्वं यस्मादतः सुभगयेव गता युवत्यः ॥”)
तत्पर्य्यायः । युवतिः २ यूनी ३ तरुणी ४ तलुनी ५ दिक्वरी ६ धनिका ७ धनीका ८ मध्यमा ९ दृष्टरजाः १० मध्यमिका ११ । इति शब्दरत्ना- वली ॥ ईश्वरी १२ वर्य्या १३ । इति हेमचन्द्रः । ३ । ५११ ॥ वयस्था १४ । इति राजनिर्घण्टः ॥ तस्या लक्षणादि यथा, —
“आषोडशाद्भवेद्वाला तरुणी त्रिंशता मता । पञ्चपञ्चाशतः प्रौढा वृद्धा भवति तत्परम् ॥” इति कालिदासः ॥ “बाला तु प्राणदा प्रोक्ता युवती प्राणहारिणी । प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥ निदाघशरदोर्ब्बाला प्रौढा वर्षावसन्तयोः । हेमन्ते शिशिरे योग्या न वृद्धा क्वापि शस्यते ॥” योग्या युवती । इति राजवल्लभः ॥ स्त्रीसा- मान्यम् । यथा । प्रमदा चेति विज्ञेया युवतिश्च तथा स्मृतेति भागुरिः । प्राग्यौवना युवति- रिति वात्स्यायनः । इत्यमरटीकायां भरतः । २ । ६ । ८ ॥ * ॥
हरिद्रा । इति शब्दचन्द्रिका ॥