वाचस्पत्यम्
युष्मद् || त्रि० सौ० युष—मदिक् । संबोध्यचेतने भवच्छब्दार्थे । उक्तार्थेऽस्य सर्वनामता त्रिषु लिङ्गेषु समरूपता च ।
शब्दकल्पद्रुमः
युष्मद् || (योषति भजतीति । युष् + “युष्यसिभ्यां मदिक् ।” उणा० १ । १३८ । इति मदिक् ।)
सर्व्वनामयुष्मच्छब्दः । तस्य त्रिषु लिङ्गेषु समानि रूपाणि । (एकविंशतिविभक्तिषु तस्य रूपाणि ।)
यथा । त्वम् १ युवाम् २ यूयम् ३ । त्वाम् ४ युवाम् ५ युष्मान् ६ । त्वया ७ युवाभ्याम् ८ युष्माभिः ९ । तुभ्यम् १० युवाभ्याम् ११ युष्मभ्यम् १२ । त्वत् १३ युवाभ्याम् १४ युष्मत् १५ । तव १६ युवयोः १७ युष्माकम् १८ । त्वयि १९ युवयोः २० युष्मासु २१ । (द्वितीयाचतुर्थी- षष्ठीनामेकवचनद्विवचनबहुवचनविभक्तिषु तस्य रूपान्तराणि यथा । द्बितीयैकवचने त्वा । चतुर्थीषष्ठ्योरेकवचने ते । आसां द्विवत्तने वाम् । आसां बहुवचने वः । श्लोकपादे वाक्यादौ च-वा-हा-ह-एव-शब्दयोगे अदर्शनाथदृश्यर्थ- धातुयोगे च न स्युः ।)
इति व्याकरणम् ॥ यथा, —
“युष्मत्कृते खञ्जनगञ्जनाक्षि ! शिरो मदीयं यदि याति यातु । नीतानि नाशं जनकात्मजार्थं दशाननेनापि दशाननानि ॥” इति मुक्तिवादे गदाधरः ॥)