संस्कृत-शब्दकोशः

यूनी यूपकटक

यूप

वाचस्पत्यम्

यूप ||‍ पुंन० यु—पक् पृषो० दीर्घः । १ यज्ञीयपशुबन्धनकाष्ठभेदे तल्लक्षणं यज्ञपार्श्वे दृश्यम् । यागसमाप्तिचिह्नार्थे २ स्तम्भे च अमरः ३ जयस्तम्भे पु० उणादिको० ।


शब्दकल्पद्रुमः

यूपः || पुं क्ली, (यौति मिश्रयतीति । यूयते युज्यते- ऽस्मिन्निति ऋग्भाष्ये सायणः । १ । ५१ । १४ । यद्वा, यु + “कुयुभ्यां च । उणा० ३ । २७ । इति पः दीर्घत्वञ्च ।)
यज्ञे पशुबन्धनकाष्ठम् । इत्य- भरः । २ । ४ । ४१ ॥ तस्य परिमाणादिर्य्यथा । स्मृतौ । “चतुर्हस्तो भवेद्यूपो यज्ञवृक्षसमुद्भवः । वर्त्तुलः शोभनः स्थूलः कर्त्तव्यो वृषमौलिकः ॥” भविष्ये । “विल्वस्य वकुलस्यैव कलौ यूपः प्रशस्यते ।” इति सामवेदिवृषोत्सर्गतत्त्वम् ॥


शब्दकल्पद्रुमः

यूपः || पुं, (यु + पः । दीर्घश्च ।)
जयस्तम्भः । याग- स्तम्भः । इत्युणादिकोषः ॥ (यथा, रघुवंशे । ६ । ३८ । “संग्रामनिर्व्विष्टसहस्रबाहु- रष्टादशद्बीपनिखातयूपः । अनन्यसाधारणराजशब्दो बभूव योगी किल कार्त्तवीर्य्यः ॥”)



Correction: