वाचस्पत्यम्
यूपकटक || पु० ६ त० । यज्ञसमाप्तिसूचककाष्ठस्य शिरःस्थे वलयाकारे काष्ठमये पदार्थे चषाले अमरः ।
शब्दकल्पद्रुमः
यूपकटकः || पुं, (यूपस्य कटक इव ।)
यज्ञसमाप्ति- सूचकं पशुबन्धाद्यर्थं यज्ञभूमौ यत् काष्ठमारो- प्यते स यूपः तस्य शिरसि वलयाकृतिर्डमरुका- कृतिर्वा यः काष्ठविकारः सः । यूपमूले निहित- लोहबलय इति केचित् । इति भरतः ॥ तत्- पर्य्यायः । चषालः २ । इत्यमरः । २ । ७ । १८ ॥