संस्कृत-शब्दकोशः

यूपाग्र येष

यूष

वाचस्पत्यम्

यूष ||‍ पुंन० यूष—क । १ मुद्गादिक्काथे अमरः । “अष्टादशगुणे नीरे शमीथान्यशृतोरसः । विरसान्ने घनः किञ्चित् पेयातो यूष उच्यते । उक्तः स एव निर्यूहो रुचिकृच्च विशेषतः” । यूषस्य प्रकारान्तरमाह कल्क- द्रव्यपलं शुण्ठीं पिप्पलीञ्चार्द्धकार्षिकीं । वारिप्रस्थेन विपचेत्तद्भवौ यूष उच्यते” । “यूषो बल्यो लघुः पाके रुच्यः कण्ठ्यः कफापहः” । अथ मुद्गयूषविधिः “मुद्गानां द्विपलं तोये शृतमर्द्धाटको- न्मिते । पादस्थं मर्दितं पूतं दाडिमस्य पलेन तत् । युक्तं सैन्धवविश्वाह्वधान्यकैः पादकांशिकैः । कणाजी- रकयोश्चूर्णाच्छाणैकेनावचूर्णितम् । संस्कृतो मुद्गयूषोऽयं पित्तश्लेष्महरो मतः” । अथ तस्य गुणाः “मुद्गाना- मुत्तमो यूषो दीपनः शीतलो लघुः । व्रणोर्ध्वजत्रू- रुग्दाहकफपित्तज्वरास्रहृत्” । अथ मुद्गामलक- यूषगुणाः “मुद्गामलकयूषस्तु भेदी पित्तानिलापहः । तृड्दाहशमनः शीतो मूर्च्छाश्रममदापहः” भावप्र० । २ ब्रह्मदारुदृक्षे पु० शब्दर० ।


वाचस्पत्यम्

यूष ||‍ बधे भ्वा० पर० सक० सेट् । यूषति अयूषीत् युयूषा ।


शब्दकल्पद्रुमः

यूषः || पुं, (यूषतीति । यूष् + कः ।)
ब्रह्मदारुवृक्षः । इति शब्दरत्नावली ॥


शब्दकल्पद्रुमः

यूषं || पुं, क्ली, (यूष् + कः ।)
मुद्गादिक्वाथरसः । इत्यमरः । ३ । ५ । ३५ ॥ यूषोऽन्तःस्थादिः । चवर्गादिश्चेति मुकुटः । इति भरतः ॥ * ॥
अथ मुद्गयूषगुणाः । “मुद्गयषोऽग्निदो हृद्यः शुद्धानां व्रणिनामपि । पथ्यो बलाशपित्तघ्नो ज्वरहा च कृताकृतः ॥ अस्नेहलवणं सर्व्वमकृतं कटुकैर्विना । विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम् ॥ स तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः । रुचिकृल्लघुपाकश्च दोषाणामविरोधकृत् ॥” * ॥
मसूरयूषगुणाः । “मसूरयूषः संग्राही वृंही स्वादुः प्रमेहजित् । पित्तश्लेष्मज्वरहरस्तथातीसारनाशनः ॥” * ॥
कुलत्थयूषगुणाः । “कुलत्थयूषोऽनिलहा शर्कराश्मरिनाशनः । तूणीप्रतूणीकासार्शोगुल्ममेदःकफापहः ॥” * ॥
अम्लेन सह माषयूषगुणाः । “अम्लमाषो गुरुर्भेदी वातघ्नो दीपनो मतः ॥” अथ खडयूषः । “तक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः । सुपक्वं खडयूषोऽयमयं काम्बलिकोऽपरः ॥” * ॥
खडकाम्बलिकयूषगुणाः । “दध्यम्लो लवणस्नेहतिलमाषविपाचितः ॥ खडकाम्बलिकौ यूषौ ग्राहिवातकफापहौ ॥” रति राजवल्लभः ॥ * ॥
अपि च । अथ यूषस्य विधिर्गुणाश्च । “अष्टादशगुणे नीरे शमीधान्यशृतो रसः । विरलान्ने घनः किञ्चित् पेषातो यूष उच्यते । उक्तः स एव निर्यूहो रुचिकृच्च विशेषतः ॥” यूषस्य प्रकारान्तरमाह । “कल्कद्रव्यपलं शुण्ठीं पिप्पलीञ्चार्द्धकार्षिकीम् । बारिप्रस्थेन विपचेत्तद्भवो यूष उच्यते ॥” अयमर्थः । यूषान्नं पलमितं तत् कल्कीकृतं शुण्ठी पिप्पली च समुदितार्द्धकर्षमिता कल्की- कृता उभयमपि प्रस्थमितेन वारिणा पचेत् । तद्भवो यूषः । “यूषो बल्यो लघुः पाके रुच्यः कण्ट्यः कफा- पहः ॥” अथ मुद्गयूषविधिः । वृन्दटीकायां तन्त्रान्तरे । “मुद्गानां द्बिपलं तोये शृतमर्द्धाढकोन्मिते । पादस्थं मर्द्दितं पूतं दाडिमस्य पलेन तत् ॥ युक्तं सैन्धवविश्वाह्वधान्यकैः पादकांशिकैः । कणाजीरकयोश्चूर्णाच्छाणैकेनावचूर्णितम् । संस्कृतो मुद्गयूषोऽयं पित्तश्लेष्महरो मतः ॥” * ॥
अथ मुद्गयूषगुणाः । “मुद्गानामुत्तमो यूषो दीपनः शीतलो लघुः । व्रणोर्द्ध्वयत्रुरुग्दाहकफपित्तज्वरास्नहृत् ॥” * ॥
अथ मुद्गामलकयूषगुणाः । “मुद्गामलकयूषस्तु भेदी पित्तानिलापहः । तृड्दाहशमनः शीतो मूर्च्छाश्रममदापहः ॥” मसूरयूषगुणाः पूर्ब्बवत् । इति भावप्रकाशः ॥ (तथा च । “कुलत्थयूषो मधुरः कषायः कफं सपित्तं विनिहन्ति शीघ्रम् । मेहाश्मरी पायुजमेदहन्ता सन्दीपनो मूत्रविशोधनश्च ॥ आढक्ययूषं मधुरञ्च शीतं विशेषतो वातनिवारणञ्च । श्लेष्मापहं पित्तहरं नराणां कृमिं निहन्यादपि दारुणञ्च ॥ शीतलं मधुरं मौद्गं यूषं पित्तविकारजित् । वातदोषहरं प्रोक्तं ज्वराणां शमनं परम् ॥ मासूरो ग्राहको यूषो वृंही स्वादुः प्रमेह- जित् । पित्तश्लेष्मज्जरघ्नः स्यात्तथातीसारनाशनः ॥ कषायं कटुकञ्चोष्णं वातघ्नं पुंस्त्वदोषकृत् । रक्तपित्तं निहन्त्याशु चणानां यूषमुच्यते ॥ घनं सवातं कफकृन्माषयूषं स पित्तकृत् । अम्लं पर्य्युषितं तच्च शस्यते तैलपाचने ॥ अन्यानि चैव शस्तानि कौलत्थान्युषितानि च । मसूरास्त्रिपुठा बल्याः कलायाद्याश्च वर्ज्जिताः ॥” इति यूषविधिः ॥ * ॥
इति हारिते प्रथमस्थाने नवमेऽध्याये ॥ “ज्ञेयः पथ्यतमश्चापि मुद्गयूषः कृताकृतः । स तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः ॥” “पटोलनिम्बयूषौ तु कफमेदोविशोषिणौ । पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्वरापहौ ॥ श्वासकासप्रतिश्याय प्रसेकारोचकज्वरान् । हन्ति मूलकयूषस्तु कफमेदोगलामयान् ॥ कुलत्थयूषोऽनिलहा श्वासपीनसनाशनः । तूणी प्रतूणी कासार्शोगुल्मोदावर्त्तनाशनः ॥ दाडिमामलकैर्यूषो हृद्यः संशमनो लघुः । प्राणाग्निजननोमूर्च्छामेदोघ्नः पित्तवातजित् ॥ मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः । यवकोलकुलत्थानां यूषः कण्ठ्योऽनिलापहः ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्यायः ॥)


शब्दकल्पद्रुमः

यूष || वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०- सेट् ।)
षष्ठस्वरी । यूषति । इति दुर्गादासः ॥



Correction: