वाचस्पत्यम्
येष || यत्ने भ्वा० आ० अक० सेट् । येषते अयेषिष्ट । ऋदित् चङि न ह्रस्वः ।
शब्दकल्पद्रुमः
येष || ऋ ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) अन्तःस्थादिः । ऋ, अयियेषत् । ङ, येषते यियेषे । इति दुर्गा- दासः ॥