वाचस्पत्यम्
योक्त्र || न० युज्यतेऽनेन यज—ष्ट्रन् । ईशादण्डादौ युगबन्ध- नार्थे दामनि (योत) अमरः ।
शब्दकल्पद्रुमः
योक्त्रं || क्ली (युज्यतेऽनेनेति । युज् + “दाम्नीशसयु- युजस्तुतुदेति ।” ३ । २ । १८२ । इति ष्ट्रन् ।)
युगेन सह ईशादण्ड आवध्यते अनेन तत् । योत् दडि इति भाषा । तत्पर्य्यायः । आबन्धः २ योत्रम् ३ । इत्यमरः । २ । ९ । १३ ॥ (यथा, ऋग्वेदे । ५ । ३३ । २ । “स त्वं न इन्द्र धियमानो अर्कैर्हरीणां वृषन् योक्त्रमश्रेः ॥” “योक्त्रं नियोजनरज्जुं अश्रः आश्रयसि ।” इति तद्भाष्ये सायणः ॥ मन्थनरज्जुः । यथा, रामायणे । १ । ४५ । १८ । “ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासु- किम् । मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥”)