संस्कृत-शब्दकोशः

योक्त्र योगक्षेम

योग

वाचस्पत्यम्

योग ||‍ पु० युज—भावादौ घञ् । संयोगे १ मेलने २ उपाये ३ वर्म्मादिधारणे ४ ध्याने ५ युक्तौ च अमरः । “योगश्चित्त- वृत्तिनिरोधः” इति पातञ्जलोक्ते ६ सर्वविषयेम्योऽन्तःक- रणवृत्तेर्निरोधे “संयोगं योगमित्याहुर्जीवात्मपरमा- त्मनोः” इत्युक्ते ७ जीवात्मपरमात्मनोरैक्ये । ८ असभ्यार्थ- लाभचिन्तायाम् ९ देहस्थैर्य्ये १० शब्दादीनां प्रयोगे ११ भेषजे १२ विश्वासघातके १३ द्रव्ये कार्मणे च मेदि० । १४ समुदायशब्दस्यावयवार्थसम्बन्धे “योगबलं समाख्या” इति मीमांसकाः । “योगः कर्मसु कौशलम्” इत्युक्ते १५ यथास्थितवस्तुनोऽन्यथारूपप्रतिपादने यथा संसार- बन्धहेतोरपि कर्मणोऽबन्धमोक्षहेतुत्वम् । १६ ज्योति- षोक्तेषु रविचन्द्रयोगाधीनेषु विष्कुम्भादिषु सप्त- विंशतौ पदार्थेष । तिथिवारनक्षत्राणाम् अन्यतरान्य- तमानां १७ सम्बन्धविशेषेषु सिद्धियोगः अमृतयोगः अर्द्धो- दययोग इत्यादि । १८ छले च “योगाधमनविक्रीतमिति” स्मृतिः । १९ नैयायिके २० धने हेमच० २१ चारे २४ सूत्रे त्रिका० । चित्तवृत्तिनिरोधरूपयोगश्च द्विविधः । राजयोगो हटयोगश्च । तत्र राजयोगः पतञ्जलिनोक्तः । हटयोगस्तु तन्त्रशास्त्रोक्तः । तस्य प्रकारान्तरेण त्रैविध्यम् भाग० ११ । २० अ० उक्तं यथा “श्रीभगवानुवाच “योगास्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया । ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कृत्रचित् । निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु । तेष्वनिर्विणचित्तानां कर्मयोगश्च कामिनाम् । यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः । तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते । स्वधर्मस्थो यजन् यज्ञैरनाशीःकाम उद्धव! । न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् । अस्मिल्लाँके वर्त्तमानः स्वधर्मस्यो- ऽनघः शुचिः । ज्ञानं विशुद्धमाप्नोति मद्भक्तिञ्च यदृ- च्छया” । २३ ज्योतिषोक्ते लग्नादिगृहविशेषे ग्रहभेद- योगे यथा राजयोगः नाभसयोग इत्यादि । यात्रायां यात्रालग्नात् केन्द्रत्रिकोणस्थिते बुधजीवशुक्राणामेकस्मिन् यथोक्तं मु० चि० “एकोज्ञेज्यसितेषु पञ्चमतपःकेन्द्रेषु योगस्तथा द्वौ चेत्तेष्वधियोग एषु सकला योगाधियोगः स्मृतः” । योगे क्षेममथाधियोगगमने “क्षेमं रिपूणां बधः”


शब्दकल्पद्रुमः

योगः || पुं, (युज ममाधौ + भावादौ यथायथं घञ् ।)
सन्नहनः । उपायः । ध्यानम् । सङ्गतिः । युक्तिः । इत्यमरः । ३ । ३ । २२ ॥ (प्रेम । यथा, देवीभागवते । ३ । १५ । १३ । “स्वीयान् गुणान् प्रविततान् प्रवदंस्तदासौ तां प्रेमदामनुचकार च योगयुक्तः ॥” “योगयुक्तः प्रेमयुक्तः ।” इति तट्टीकायां नील- कण्ठः ॥ छलम् । इति मनुः । ८ । ११५ ॥ अस्य प्रमाणं योगदानशब्दे द्रष्टव्यम् ॥)
अपू- र्व्वार्थसम्प्राप्तिः । वपुःस्थैर्य्यम् । प्रयोगः । विष्क- म्भादिः । भेषजम् । विश्रब्धघातकः । द्रव्यम् । कार्म्मणम् । इति मेदिनी ॥ नैयायिकः । धनम् । इति हेमचन्द्रः ॥ चारः । सूत्रम् । इति त्रिकाण्डशेषः ॥ * ॥
(येन वाक्यं युज्यंते स योगः । यथा, —
“तैलं पिबेच्चामृतवल्लिनिम्ब- हिंस्राभयावृक्षकपिप्पलीभिः । सिद्धं बलाभ्याञ्च सदेवदारु हिताय नित्यं गलगण्डरोगी ॥ सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धं प्रयुक्तमेवं दूरस्थानामपि पदानामेकीकरणं योगः ।” इत्युत्तरतन्त्रे पञ्चषष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥)
अथ सप्तविंशतियोगानां नामानि । यथा, —
“विष्कम्भः प्रीतिरायुष्मान् सौभाग्यः शोभन- स्तथा । अतिगण्डः सुकर्म्मा च धृतिः शूलस्तथैव च ॥ गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा । वज्रश्चासृक् व्यतीपातो वरीयान् परिघः शिवः । सिध्यः साध्यः शुभः शुक्रो ब्रह्मेन्द्रो वैधृतिस्तथा ॥” तेषां वर्ज्जनीयभागा यथा, —
“परिघस्य त्यजेदर्द्धं शुभकर्म्म ततः परम् । त्यजादौ पञ्च विष्कम्भे सप्त शूले च नाडिकाः ॥ गण्डव्याघातयोः षट् च नव हर्षणवजयोः । वैधृतिव्यतिपातौ च समस्तौ परिवर्जयेत् ॥ शेषा यथार्थनामानो योगाः कार्य्येषु शोभनाः ॥” अथ विष्कम्भादियोगानयनक्रमः । “रवीन्दुयोगलिप्ताभ्यो योगा भभोगभाजिताः । गतगम्याश्च षष्टिघ्ना नाड्यो भुक्त्यन्तरोद्धृताः ॥” इति सूर्य्यसिद्धान्तः ॥ विष्कम्भादिसप्तविंशतिसङ्ख्यककालविशेषः । तत्- साधनमाह । “ग्रहकलाः सरबीन्दुकलाहृताः खखगजैश्च भयोगमिती क्रमात् । अथ हृता स्वगतैष्यविलिप्तिका निजजवेन गतागत नाडिकाः ॥” इति भास्करीयसिद्धान्तशिरोमणौगणिता- ध्यायः ॥ * ॥
यस्य ग्रहस्य नक्षत्रं ज्ञातु- मिष्यते तस्य कलाः कार्य्याः । तथा चन्द्रार्क्कयो- र्योगस्य कलाः कार्य्याः । उभयत्र शताष्टकेन हृते प्रथमस्थाने गतभानि । द्बितीयस्थाने गत- योगाः । अथ यान्यवशिष्टानि गतानि स्वस्व- हारच्युतानि गम्यानि स्युः तेषां गतानां सम्ब- न्धिन्यो विकलाः स्वस्वगतिभिर्भाज्याः । यकृभ्यते ता गतनाडिका भवन्ति । यद्येष्याणां विकला भक्तास्तदैष्या घटिका भवन्ति । इति मिता- क्षरानाम्नी तत्कृतटीका ॥ आनन्दयोगो यथा । भीमपराक्रमे । “अश्विनी सह सूर्य्येण सोमे मृगशिरस्तथा । अश्लेषा भौमवारेण बुधे हस्तः प्रकीर्त्तितः ॥ अनुराधा गुरोर्वारे विश्वदेवस्तु भार्गवे । वारुणं शनिसंयुक्तमानन्दोऽयं प्रकीर्त्तितः ॥” योगवरा यथा । दीपिकायाम् । “भूमिपुत्त्रार्कयोरह्नि नन्दा मरु- द्बारुणार्द्रान्त्यचित्राहिमूलाग्निभिः । भार्गवैणाङ्कयोरह्नि भद्रा भवेत् फल्गुयुग्मोडुसंयुता ॥ सोमपुत्त्रस्य वारे जया स्यान्मृगो- पेन्द्रगुर्व्विन्द्रयाम्याभिजिद्बाजिभिः । गीष्पतेरह्नि रिक्ता च युक्ता यदा विश्वशक्राग्नियुक्पित्रादित्यम्बुभिः ॥ सूर्य्यसुतस्य दिने यदि पूर्व्वा ब्रह्मदिनाधिपतिद्रविणैः स्यात् । योगवरास्त्रिभिरेव समेताः सर्व्वसमीहितसिद्धिनियुक्ताः ॥” अयमेव त्र्यमृतयोगः ॥ * ॥
अथामृतयोगः । “ध्रुवगुरुकरमूलापौष्णभान्यर्कवारे हरियुगविधियुग्मे फल्गुनी भाद्रयुग्मे । दिवसकरतुरङ्गौ सर्व्वरीनाथवारे गुरुयुगनलवातोपान्त्यपौष्णानि कौजे दहनविधिशताख्यामैत्रभं सौम्यवारे मरुददितिभपुष्यामैत्रभं जीववारे । भगयुगजयुगश्वो विष्णुमैत्रे सिताहे श्वसनकमलयोनी सौरिवारेऽमृतानि ॥ यदि विष्टिव्यतीपातौ दिनं वाप्यशुभं भवेत् । हन्यतेऽमृतयोगेन भास्करेण तमो यथा ॥ सर्व्वदेशाविशेषेण फलं स्याच्छुभयोगजम् ॥ अमृतं सिद्धियोगश्च यद्येकस्मिन् दिने भवेत् । तद्दिनन्तु भवेद्दुष्टं मधुसर्पिर्यथा विषम् ॥” * ॥
अथ सिद्धिदग्धपापयमघण्टयोगाः । यथा, —
“नन्दाद्याः सिद्धियोगा भृगुजबुधकुजार्कीज्य- वारैः प्रशस्ताः । सूर्य्येशाशाग्निषड्दृङ्मुनिमिततिथयोऽर्कादि- वारैः प्रदग्धाः ॥” राजमार्त्तण्डे । “मासा रुद्रादिशो रामा षट्पक्षमुनयस्तथा । दह्यन्ते तिथयः सप्त रव्यादिसप्तभिर्ग्रहैः ॥” अपि च । “द्बादश्यर्कषुता भवेदशुभदा सोमेन चैकादशी भौमे चापि युता तथैव दशमी नेष्टा तृतीया बुधे । षही नेष्टफलप्रदा सुरगुरौ शुक्रे द्बितीया तथा । सर्व्वारम्भविनाशविघ्नजननी सूर्य्यात्मजे सप्तमी ॥ पापोऽर्काहे विषाखात्रययममुडुपस्याह्नि चित्राचतुष्कं तोयं विश्वाभिजिद्भं त्वथ कुजदिवसे स्वत्रयं विश्वरुद्रौ । ज्ञाहे मूला विशाखा यमधनतुरगान्त्यानि जैवे- ऽह्नि पित्रं रोहिण्यार्द्रा यमेन्दूशतभमथ भृगोरह्नि पुष्या- त्रयेन्द्रौ ॥ सौराहे हस्तयुग्मार्य्यमयमजलयुक्पौष्णपुष्या- धनानि घण्टोऽखण्डर्क्षयुक्ते स्वगृहपतिदिने सौम्यवारे ऽर्य्यमापि ॥” * ॥
अथोत्पाटादियोगाः । “रव्यादिदिवसैर्युक्ता विशाखादिचतुश्चतुः । उत्पाटा मृत्यवः काणा अमृतानि यथा- क्रमम् ॥” अथ करकचायोगः । “वाजिचित्रोत्तराषाढा मूलपाशीज्यभान्तकाः । सूर्य्यादिवारसंयुक्ता योगाः करकचाः स्मृताः ॥” अथ मृत्युयोगः । “आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः । बुधे जया गुरौ रिक्ता शनौ पूर्णा च मृत्युदा ॥” अथ यमघण्टादीनां वर्ज्यकालनिर्णयः । “यमघण्टे त्यजेदष्टौ मृत्यौ द्वादश नाडिकाः । अन्येषां पापयोगानां भध्याह्नात् परतः शुभम् ॥” अथ शुभचन्द्रेण करकचादिशान्तिः । “अयोगेषु च सर्व्वेषु पूर्ब्बयामं परित्यजेत् । अयोगाश्च विनश्यन्ति चन्द्रशुद्धिहता इमे ॥ करकचा मृत्युयोगाश्च दिनं दग्धं तथा परे । शुभे चन्द्रे प्रणश्यन्ति वृक्षा वज्रहता इव ॥” * ॥
विरुद्धयोगानां देशविशेषे प्रतिप्रसवो यथा । श्रीपतिः । “विरुद्धसंज्ञास्तिथिवारयोगा नक्षत्रवारप्रभवाश्च ये वै । हूनाङ्गवङ्गेषु खशेषु वर्ज्याः शेषेषु देशेषु न ते विरुद्धाः ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
अथ क्रियायोगः । मुनय ऊचुः । “दुःखाम्बुमग्नाः पुरुषाः प्राप्य ब्रह्म महालयम् । उत्तरेयुर्भवाम्भोधिं तथा त्वमनुचिन्तय ॥ इत्युक्तः स तदा प्राह क्रियायोगं महात्मनाम् । नराणामुपकाराय दुःखविच्छित्तिकारकम् ॥ वह्निरुवाच । आराधयध्वं विश्वेशं जगतां कारणं परम् । केशवन्तन्निरापेक्षा एवमुक्तं प्रवास्यथ ॥ इष्ट्या पूजानमस्कारैः शुश्रूषाभिरहर्निशम् । व्रतोपवासैर्विविधैर्ब्राह्मणानाञ्च तर्पणैः ॥ तैस्तैश्चात्महितैः कामैर्ये स्वचेतसि तुष्टिदाः । भवेयुरपरिच्छेदादाराधयत केशवम् ॥ तन्निष्ठास्तद्गतधियस्तत्कर्म्माणस्तदाश्रयाः । तद्दृष्टयस्तन्मनसः सर्व्वस्मिन् स इति स्थितः ॥ समस्तान्यथ कर्म्माणि तत्र सर्व्वात्मनात्मनि । संन्यस्यध्यं स वः कर्त्ता समस्तावरणक्षयः ॥ परः पराणां परमः स एको नरोत्तमो यस्य पदन्न भिन्नम् । चराचरं विश्वमिदं समन्ता- दचिन्त्यरूपन्त्वपरिग्रहं यत् ॥ तमाराध्य जगन्नाथं क्रियायोगेन वाडवाः । अग्नौ मोक्षं परं जग्मुस्तस्मात्तन्मोक्षकारणम् ॥ संसारार्णवमग्नानां विषयाक्रान्तचेतसाम् । विष्णुपोतं विना नान्यत् किञ्चिदस्ति परायणम् ॥ उत्तिष्ठंश्चिन्तय हरिं व्रजंश्चिन्तय केशवम् । भुञ्जंश्चिन्तय गोविन्दं स्वपंश्चिन्तय माधवम् ॥ यूयमेकाग्रचित्ता हि संश्रिता मधुसूदनम् । जन्ममृत्युजराग्राहं संसारं सन्तरिष्यथ ॥ क्रियायोगपराणीह मुक्तिकार्य्याण्यनेकशः । समाराध्य जगन्नाथं राजानो मोक्षमाप्नुयुः ॥” इति वह्निपुराणम् ॥ * ॥
अथ योगसाधनम् । केशिध्वज उवाच । “योगस्वरूपं खाण्डिक्य ! श्रूयतां गदतो मम । यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धस्य विषयासङ्गि मुक्तेर्निर्व्विषयं तथा ॥ विषयेभ्यः समाहृत्य विज्ञानात्मा मनो मुने । चिन्तयेन्मुक्तये तेन ब्रह्मभूयं परेश्वरम् ॥ आत्मभावं नयत्येवं तद्ब्रह्मध्यायिनं मुने । विकार्य्यञ्चात्मनः शक्त्या लोहमाकर्षको यथा ॥ आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ एवमत्यन्तवैशिष्ट्ययुक्तधर्म्मोपलक्षणः । यस्य योगः स वै योगी मुमुक्षुरभिधीयते ॥ योगयुक् प्रथमं योगी युञ्जानः सोऽभिधीयते । विनिष्पन्नसमाधिस्तु परब्रह्मोपलब्धिवान् ॥ यद्यन्तरायदोषेण दुष्यते चास्य मानसम् । जन्मान्तरैरभ्यसतो मुक्तिः पूर्व्वस्य जायते ॥ विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्म्मा च यो- ऽचिरात् ॥ ब्रह्मचर्य्यमहिंसाञ्च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामो योग्यतां स्वं मनो नयन् ॥ म्वाध्यायशौचसन्तोषतपांसि नियतात्मवान् । कुर्व्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः ॥ एते यमाः सनियमाः पञ्च पञ्च प्रकीर्त्तिताः । विशिष्टफलदाः काम्या निष्कामानां विमु- क्तिदाः ॥ एकं भद्रासनादीनां समास्थाय गुणैर्युतः ॥ यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ प्राणाख्यमनिलं वश्यमभ्यासात् कुरुते तु यत् । प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ॥ परस्परेणाभिभवं प्राणापानौ यदानिलौ । कुरुतः सद्बिधानेन तृतीयः संयमात्तयोः ॥ तस्य चालम्बनवतः स्थूलरूपं द्विजोत्तम ! । आलम्बनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥ शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्य्याच्चिन्तानुकारीणि प्रत्याहारपरायणः ॥ वश्यता परमा तेन जायतेऽतिचलात्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ प्राणायामेन पवनैः प्रत्याहारेण चेन्द्रियैः । वशीकृतैस्ततः कुर्य्यात् स्थितं चेतः शुभाश्रये ॥ श्रीखाण्डिक्य उवाच । कथ्यतां मे महाभाग ! चेतसो यः शुभाश्रयः । यदाधारमशेषं तद्धन्ति दोषफलोद्भवम् ॥ श्रीकेशिध्वज उवाच । आश्रयश्चेतसो ब्रह्म द्विधा तच्च स्वभावतः । भूप ! मूर्त्तममूर्त्तञ्च परञ्चापरमेव च ॥ त्रिविधा भावना विप्र विश्वमेतन्निबोध मे । ब्रह्मख्या कर्म्मसंज्ञा च यथा चैवोभयात्मिका ॥ ब्रह्मभावात्मिका ह्येका कर्म्मभावात्मिका परा । उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ सनन्दनादयो ब्रह्मभावभावनया युताः । कर्म्मभावनया चान्ये देवाद्याः स्थावराश्चराः ॥ हिरण्यगर्भादिषु च ब्रह्मकर्म्मात्मिका द्बिधा । बोधाधिकारयुक्तेषु विद्यते भावभावना ॥ अक्षीणेषु समस्तेषु विशेषज्ञानकर्म्मसु । विश्वमेतत् परं चान्यद्भेदभिन्नदृशां नृप ! ॥ प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ तच्च विष्णोः परं रूपमरूपस्याजमक्षरम् । विश्वखरूपवैरूप्यलक्षणं परमात्मनः ॥ न तद्योगयुजा शक्यं नृप ! चिन्तयितुं यतः । ततः स्थूल हरे रूपं चिन्त्यं यद्बिश्वगोचरम् ॥ हिरण्यगर्भो भगवान् वासवोऽथ प्रजापतिः । मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ॥ गन्धर्व्वयक्षदैत्याद्याः सकला देवयोनयः । मनुष्याः पशवः शैलाः समुद्राः सरितो द्रुमाः ॥ भूप भूतान्यशेषाणि भूतानां ये च हेतवः । प्रधानादि विशेषान्तं चेतनाचेतनात्मकम् ॥ एकपादं द्बिपादञ्च बहुपादमपादकम् । मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥ एतत् सर्व्वमिदं विश्वं जगदेतच्चराचरम् । परं ब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ॥ विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्या कर्म्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ यया क्षेत्रज्ञशक्तिः सा चेष्टिता नृप ! सर्व्वगा । संसारतापा खिलानवाप्नोत्यनुसन्ततान् ॥ तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्व्वभूतेषु भूपाल ! तारतम्येन लक्ष्यते ॥ अप्राणवत्सु स्वल्पाल्पा स्थावरेषु ततोऽधिका । सरीसृपेऽपि तेभ्योऽपि अतिशक्त्या पतत्त्रिषु ॥ पतत्त्रिभ्यो मृगास्तेभ्यः स्वशक्त्या पशवोऽधिकाः । पशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः ॥ एभ्योऽपि नागगन्धर्व्वा यक्षाद्या देवता नृप ! । शक्रः समस्तदेवेभ्यस्ततश्चापि प्रजापतिः ॥ हिणण्यगर्भोऽति ततः पुंसः शक्त्युपलक्षितः । एतान्यशेरूपस्य तस्य रूपाणि पार्थिव ! ॥ यतस्तच्छक्तियोगेन युक्तानि नभसा यथा । द्वितीयं विष्णुसंज्ञस्य गोगिध्येयं महामते ॥ अमूर्त्तं ब्रह्मणो रूपं यत् सदित्युच्यते बुधैः । समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ॥ तद्बिश्वरूपरूपं वै रूपमन्यद्धरेर्महत् । समस्तशक्तिरूपाणि तत् करोति जनेश्वर ! ॥ देवतिर्य्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया । जगतामुपकाराय न सा कर्म्म निमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥ तद्रूपं विश्वरूपस्य तस्य योगयुजो नृप ! । चिन्त्यमात्मविशुद्ध्यर्थं सर्व्वकिल्विषनाशनम् ॥ यथाग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्ते स्थितो विष्णुर्योगिनां सर्व्वकिल्विषम् । तस्मात् समस्तशक्तीनामाधारे तत्र चेतसः । कुर्व्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥ शुभाश्रयः सचित्तस्य सर्व्वगस्य तथात्मनः । त्रिभावभावनातीतो मुक्तये योगिनां नृप ॥ अन्ये च पुरुषव्याघ्र ! चेतसो ये व्यपाश्रयाः । अशुद्धास्ते समस्तास्तु देवाद्याः कर्म्मयोनयः ॥ मूर्त्तं भगवतो रूपं सर्व्वापाश्रयनिस्पृहम् । एषा वै धारणा ज्ञेया यच्चित्तं तत्र धार्य्यते ॥ तच्च मूर्त्तं हरे रूपं यादृक्चिन्त्यं नराधिप ! । तच्छ्रूयतामनाधारा धारणा नोपपद्यते ॥ प्रसन्नचारुवदनं पद्मपत्रायतेक्षणम् । सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम् ॥ समकर्णान्तविन्यस्तचारुकर्णविभूषणम् । कम्बुग्रीवं मुविस्तीर्णश्रीवत्साङ्कितवक्षसम् ॥ बलीत्रिभङ्गिना मग्ननाभिना चोदरेण वै । प्रलम्बाष्टभुजं विष्णुमथवापि चतुर्भुजम् ॥ समस्थितोरुजङ्घञ्च सुस्थिराङ्ध्रिकराम्बुजम् । चिन्तयेद्ब्रह्मभूतं तं पीतनिर्म्मलवाससम् ॥ किरीटचारुकेयूरकटकादिविभूषितम् । शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् ॥ चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् ॥ तावद्यावद्दृढीभूता तत्रैव नृप धारणा ॥ व्रजतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म्म कुर्व्वतः । नापयाति तदा चित्तात् सिद्धां मन्येत तां तदा ॥ ततः शङ्खगदाचक्रशार्ङ्गादिरहितं बुधः । चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ सा यदा धारणा तद्बदवस्थानवती ततः । किरीटकेयूरमुखैर्भुषणै रहितं स्मरेत् ॥ तदेकावयवं देवं चेतसापि पुनर्ब्बुधः । कुर्य्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ॥ तद्रूपप्रत्ययैवैकसन्ततिश्चान्यनिस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ॥ तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥ विज्ञानं प्रापकं प्राप्य परे ब्रह्मणि पार्थिव ! । प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥ क्षेत्रज्ञः करणी ज्ञानं करणं तेन तस्य तत् । निष्पाद्य मुक्तिकार्य्यं वै कृतकृत्यं निवर्त्तते ॥ तद्भावभावमापन्नस्ततोऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणी भेदमसन्तं कः करिष्यति ॥ इत्युक्तस्ते मया योगः खाण्डिक्य ! परिपृच्छते ॥” इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥ * ॥
ब्रह्मकृतयोगो यथा । “सुखं योगासनं कृत्वा बभूव संपुटाञ्जलिः । पुलकाङ्कितसर्व्वाङ्गः सास्रु नेत्रोऽतिदीनवत् ॥ इडां सुषुम्नां मेध्याञ्च पिङ्गलां नलिनीं धुराम् । नाडीषट्कञ्च योगेन निरुध्य च प्रयत्नतः ॥ मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् । विशुद्धं परमाज्ञाख्यं षट्चक्रञ्च निरुध्य च ॥ लङ्घनं कारयित्वा च तं षट्चक्रं क्रमाद्विधिः । ब्रह्मरन्ध्रं समानीय वायुवद्धं चकार ह ॥ निरुध्य वायुं मेध्यान्तामानीय हृदयाम्बुजम् । तं वायुं भ्रामयित्वा च योजयामास मेध्यया ॥ एवं कृत्वा तु निष्पन्दो यो दत्तो हरिणा पुरा)
जजाप परमं मन्त्रं तं तस्यैकादशाक्षरम् ॥ मुहूर्त्तञ्च जपं कृत्वा ध्यायं ध्यायं पदाम्बुजम् । ददर्श हृदयाम्भोजे सर्व्वं तेजोमयं मुने ॥ तत्तेजसोऽन्तरे रूपमती पमुमनोहरम् । द्विभुजं मुरलीहस्तं भूषितं पीतवाससा ॥ श्रुतिमूलस्थलन्यस्तज्वलन्मकरकुण्डलम् । ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकातरम् ॥ नवीनजलदाकारश्यामसुन्दरविग्रहम् । स्थितं जन्तुषु सर्व्वेषु निर्लिप्तं साक्षिरूपिणम् ॥ स्वात्मारामं पूर्णकामं जगद्व्यापि जगत्परम् । सर्व्वस्वरूपं सर्व्वेषां बीजरूपं सनातनम् ॥ सर्व्वाधारं सर्व्ववरं सर्व्वशक्तिसमन्वितम् । सर्व्वाराध्यं सर्व्वगुरुं सर्व्वमङ्गलकारणम् ॥ सर्व्वमन्त्रस्वरूपञ्च सर्व्वसम्पत्करं वरम् । यद्दृष्टं ब्रह्मरन्ध्रे च हृदि तद्बहिरेव च । दृष्ट्वा च परमाश्चर्य्यं तुष्टाव परमेश्वरम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णखण्डे २० अध्यायः ॥ * ॥
अथ ध्यानयोगः । हरिरुवाच । “अथ योगं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् । ध्यायिभिः प्रोच्यते ध्येयो ध्यानेन हरिरीश्वरः ॥ तत् शृणुष्व महेशान ! सर्व्वपापविनाशनम् । विष्णुः सर्व्वेश्वरोऽनन्तो यद्भूमिपरिवर्ज्जितः ॥ वासुदेवो जगन्नाथो ब्रह्मात्मा अहमेव तु । देहिदेहस्थितो नित्यः सर्व्वदेहविवर्ज्जितः ॥ देहधर्म्मविहीनश्च क्षराक्षरविवर्ज्जितः । षड्विधेषु स्थितो द्रष्टा श्रोता घ्राता ह्यतीन्द्रियः ॥ तद्धर्म्मरहितः स्रष्टा नामगोत्रविवर्ज्जितः । मन्ता मनःस्थितो देवो मनसा परिवर्ज्जितः ॥ मनोधर्म्मविहीनश्च विज्ञानाव्यय एव च । बोद्बा बुद्धिस्थितः साक्षी सर्व्वबोधविवर्ज्जितः ॥ बुद्धिधर्म्मविहीनश्च सर्व्वः सर्व्वगतोऽमलः । सर्व्वप्राणविनिर्मुक्तः प्राणधर्म्मविवज्जितः ॥ प्राणिप्राणो महाशान्तो भयेन परिवर्ज्जितः । अहङ्कारादिहीनश्च तद्धर्म्मपरिवर्ज्जितः ॥ तत्साक्षी तन्नियन्ता च परमानन्दरूपकः । जाग्रत्स्वप्नसुषुप्तिस्थस्तत्साक्षी तद्विवर्ज्जितः ॥ तुरीयः परमो धाता दृग्रूपो गुणवर्ज्जितः । मुक्तो बुद्धो जनव्यापी सत्य आत्मास्म्यहं शिवः ॥ एवं ये मानवा विज्ञा ध्यायन्तीशपरं पदम् । प्राप्नुयुस्ते च तद्रूपं नात्र कार्य्या विचारणा ॥ इति ध्यानं मया ख्यातं तव शङ्कर ! सुव्रत ! । पठेद्य एतत् सततं विष्णुलोकं स गच्छति ॥” इति गारुडे १४ अध्यायः ॥ अथाष्टाङ्गयोगः । “मुक्तिरष्टाङ्गविज्ञानात् संक्षेपात्तद्वदे शृणु । वमाः पञ्च त्वहिंसाद्या अहिंसा प्राण्यहिंस- नम् ॥ सत्यं भूतहितं वाक्यमस्तेयं स्वाग्रहं परम् । अमैथुनं ब्रह्मचर्य्यं सर्व्वत्यागोऽपरिग्रहः ॥ नियमाः पञ्च सत्याद्या वाह्यमाभ्यन्तरं द्विधा । शौचं तुष्टिश्च सन्तोषस्तपश्चेन्द्रियनिग्रहः ॥ स्वाध्यायः स्यान्मत्रजापः प्रणिधानं हरेर्यजिः । आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥ मन्त्रध्यानयुतो गर्भो विपरीतो ह्यगर्भकः । अगर्भात्तु सगर्भस्थः प्राणायामस्ततोऽधिकः ॥ एवं द्बिधा त्रिधाप्युक्तः पूरणात् पूरकः स च । कुम्भको निश्चलत्वात् स रेचकाद्रेचकस्त्रिधा ॥ लघुर्द्वादशमात्रः स्याच्चतुर्विंशतिकः परः । षट्त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम् । ब्रह्मात्मचिन्ता ध्यानं स्याद्धारणा मनसो धृतिः । अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम् । विज्ञानमानन्दो ब्रह्म सत्तत्त्वमसि केवलम् ॥ अहं ब्रह्मास्म्यहं ब्रह्म अशरीरमनिन्द्रियम् । अहं मनो बुद्धिमरुदहङ्कारादिवर्ज्जितम् ॥ जाग्रत्स्वप्नसुषुप्त्यादिमुक्तं ज्योतिस्तदीयकम् । नित्यं शुद्धं बुद्धियुक्तं सत्यमानन्दमद्वयम् ॥ योऽसावादित्यपुरुषः सोऽसावहमखण्ड ॐ । इति ध्यायन् विमुच्येत ब्राह्मणो भवबन्धनात् ॥” इति गारुडे ४९ अध्यायः ॥ * ॥
अपि च । “एतत्ते कथितं ज्ञानं योगञ्चेमं निंबोध मे । यं प्राप्य ब्रह्मणो योगी शाश्वतानन्यतां व्रजेत् ॥ प्रागात्मैवात्मना जेयो योगिनां स हि दुर्ज्जयः । कुर्व्वीत तज्जये यत्नं तस्योपायं शृणुष्व मे ॥ प्राणायामैर्दहेद्द्वोषान् धारणाभिश्च किल्विषम् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ यथा पर्व्वतधातूनां ध्मातानां दह्यते मलम् । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ प्रथमं साधनं कुर्य्यात् प्राणायामस्य योगवित् । प्राणापाननिरोधस्तु प्राणायाम उदाहृतः ॥ लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः । तस्य प्रमाणं वक्ष्यामि तदलर्क ! शृणुष्व मे ॥ लघुर्द्वादशमात्रस्तु द्बिगुणः स तु मध्यमः । त्रिगुणाभिश्च मात्राभिरुत्तरीय उदाहृतः ॥ निमेषोन्मेषणे मात्रा तालो लघ्वक्षरो मतः । प्राणायामस्य संख्यार्थं स्मृतो द्बादशमात्रकः ॥ प्रथमेन जयेत् स्वेदं मध्यमेन तु वेपथुम् । विषादं हि तृतीयेन जयेद्दोषानुक्रमात् ॥ मृदुत्वं सेव्यमानास्तु सिंहशार्द्दूलकुञ्जराः । यथा यान्ति तथा प्राणो वश्यो भवति योगिनः ॥ वश्यं मत्तं यथेच्छातो नागं नयति हस्तिपः । तथैव योगी च्छन्देन प्राणं नयति साधितम् ॥ यथा हि साधितः सिंहो मृगान् हन्ति न मानुषान् । तद्वन्निषिद्धः पवनः किल्विषं न नृणां तनुम् ॥ तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् । श्रूयतां मुक्तिफलदं तस्यावस्थाचतुष्टयम् ॥ ध्वस्तिः प्राप्तिस्तथा संवित् प्रसादश्च महीपते । स्वरूपं शृणु वै तेषां कथ्यमानमनुक्रमात् ॥ कर्म्मणामिष्टदुष्टानां जायते फलसंक्षयः । चेतसो विकषायत्वं यत्र सा ध्वस्तिरुच्यते ॥ ऐहिकामुष्मिकान् कामान् लोभमोहात्मकांश्च यान् । निरुध्यास्ते सदा योगी प्राप्तिः सा सार्व्व- कालिकी ॥ अतीतानागतानर्थान् विप्रकृष्टतिरोहितान् । विजानातीन्दुसूर्य्यर्क्षग्रहाणां ज्ञानसम्पदा ॥ तुल्यप्रभावस्तु यदा योगी प्राप्नोति संविदम् । तदा संविदिति ख्याता प्राणायामस्य सा स्थितिः ॥ यान्ति प्रसादं येनास्य मनः पञ्च च वायवः । इन्द्रियाणीन्द्रियार्थाश्च स प्रसाद इति स्मृतः । शृणुष्व च महीपाल ! प्राणायामस्य लक्षणम् । युञ्जतश्च यथायोगं यादृग्विहितमासनम् ॥ पद्ममर्द्धासनं वापि तथा स्वस्तिकमासनम् । आस्थाय योगी युञ्जीत कृत्वा च प्रणवं हृदि ॥ समः समासनो भूत्वा संहृत्य चरणावुभौ । संवृतास्यस्तथा चोरू सम्यग्विष्टभ्य वाग्यतः ॥ पार्ष्णिभ्यां लिङ्गवृषणावस्पृशन् प्रयतः स्थितः । किञ्चिदुन्नामितशिरा दन्तैर्द्दन्तान्न संस्पृशेत् । संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ रजसा तमसो वृत्तिं सत्वेन रजसस्तथा । संस्थाप्य निर्म्मले सत्वे स्थितो युञ्जीत योगवित् ॥ इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन् मन एव च । निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥ यस्तु प्रत्याहरेत् कामान् कूर्म्मोऽङ्गानीव सर्व्वशः । स त्वात्मरतिरेकस्थः पश्यन्नात्मानमात्मनि ॥ सवाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः । पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् ॥ प्राणायामा दश द्वौ च धारणा साभिधीयते । द्विधारणा स्मृतो योगो योगिमिस्तत्त्वदृष्टिभिः ॥ तथा वै योगयुक्तस्य योगिनो नियतात्मनः । सर्व्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते ॥ वीक्षते च परं ब्रह्म प्राकृतांश्च गुणान् पृथक् । व्योमादिपरमाणूंश्च तथात्मानमकल्मषम् ॥ इत्थं योगी जिताहारः प्राणायामपरायणः । जितां जितां शनैर्भूमिमारोहेत यथा गृहम् ॥ दोषान् व्याधिं तथा मोहमाक्रान्ता भूरनि- र्जिता । विवर्द्धयति नारोहेत्तस्माद्भूमिमनिर्ज्जिताम् ॥ प्राणानामुपसंरोधात् प्राणायाम इति स्मृतः । धारणेत्युच्यते चेयं धार्य्यते यन्मनोऽनया ॥ शब्दादिभ्यः प्रवृत्तानि यदक्षाणि जितात्मभिः । प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः ॥ उपायश्चात्र कथितो योगिभिः परमर्षिभिः । येन व्याध्यादयो दोषा न जायन्ते हि योगिनः ॥ यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः । आपिबेयुस्तथा वायुं पिबेद्योगी जितश्रमः ॥ प्राग्नाभ्यां हृदये वाथ तृतीये च तथोरसि । कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्द्धसु ॥ किञ्चित्तस्मात् परस्मिंश्च धारणा परमा स्मृता । दशैता धारणाः प्राप्य प्राप्नोत्यक्षरसाम्यताम् ॥ नाध्मातः क्षुधितः श्रान्तो न च व्याकुललोचनः । युञ्जीत योगं राजेन्द्र ! योगी सिद्ध्यर्थमात्मनः ॥ नातिशीते न चैवोष्णे द्बन्द्बे नाम्ब्वनिलात्मके । कालेष्वेतेषु युञ्जीत न योगं ध्यानतत्परः ॥ सशब्देऽग्निजलाभ्यासे जीर्णे गोष्ठे चतुष्पथे । शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे ॥ सभये कूपतीरे वा चैत्यबल्मीकसञ्चये । देशेष्वेतेषु तत्त्वज्ञो योगाभ्यासं विवर्ज्जयेत् ॥ सत्त्वस्यानुपपत्तौ च देशकालविवर्ज्जिते । नासतो दर्शनं योगे तस्मात्तं परिवर्ज्जयेत् ॥ दोषानेताननादृत्य मूढत्वाद्यो युनक्ति वै । विघ्नाय तस्य ये दोषा जायन्ते तान्निबोध मे ॥ वाधिर्य्यं जडतालोपः स्मृतेर्मू कत्वमन्धता । ज्वरश्च जायते सद्यस्तद्बदज्ञानयोगिनः ॥ प्रमादाद्योगिनो दोषा यथैते स्युश्चिकित्सितम् । तेषां नाशाय कर्त्तव्यं योगिनां तं निबोध मे ॥ स्निग्धां यवागूमत्युष्णां भुक्त्वा तत्रैव धारयेत् । वातगुल्मप्रशान्त्यर्थं गुदावर्त्ते ततो दधि ॥ यवागूर्व्वापि पवने वायुग्रन्थीन् परिक्षिपेत् । तद्वत् कम्पे महाशैलं स्थिरं मनसि धारयेत् ॥ विघाते वचसो वापि वाधिर्य्ये श्रवणेन्द्रिये । तथैवाम्लफलं ध्यायेत्तृष्णार्त्तो रसनेन्द्रिये ॥ यस्मिन् यस्मिन् रुजा देहे तस्मिंस्तदुपकारि- णीम् । धारयेद्धारणामुष्णे शीतां शीते विदाहिनीम् ॥ कीलं शिरसि संस्थाप्य काष्ठं काष्ठेन ताड- येत् । लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ॥ द्यावापृथिव्यौ वाय्वग्नी व्यापिनावनुधारयेत् । अमानुषात् सत्त्वजाताद्वाधास्थितिचिकित्- सितम् ॥ अमानुषं सत्त्वमन्तर्योगिनं प्रविशेत् यदि । वाय्वग्निधारणा चैवं देहसंस्थं विनिर्दहेत् ॥ एवं सर्व्वात्मना कार्य्या रक्षा योगविदा नृप ! । धर्म्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ प्रवृत्तिलक्षणा ख्याता योगिनो विस्मयात्तथा । विज्ञानं विलयं याति तस्माद्गोप्याः प्रवृत्तयः ॥ अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ अनुरागं जनो याति परोक्षे गुणकीर्त्तनम् । न विभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् ॥ शीतोष्णादिभिरत्युग्रैर्यस्य बाधा न जायते । न भीतिमेति चान्येभ्यस्तस्य सिद्धिरुपस्थिता ॥” इति मार्कण्डेयपुराणे योगिचिकित्सानाम ३९ अध्यायः ॥ (तथा च । ईश्वर उवाच । “मय्येकचित्तता योग इति पूर्ब्बं निरूपितम् । साधनान्यष्टधा तस्य प्रवक्ष्याम्यधुना शृणु ॥ यमाश्च नियमास्तावदासनान्यपि षण्मुख ! । प्राणायामस्ततः प्रोक्तः प्रायाहारश्च धारणा ॥ ध्यानं तथा समाधिश्च योगाङ्गानि प्रचक्षते । अहिंसा सत्यमस्तेयं द्रह्मचर्य्यापरिग्रहौ ॥ यमाः संक्षेपतः प्रोक्ता नियमाः शृणु पुत्त्रक ! । तपः स्वाध्यायसन्तोषः शौचमीश्वरपूजनम् ॥ नियमाः कथिता तत्स ! योगसिद्धिप्रदायिनः । सर्व्वेषामेव भूतानामक्लेशजननं हि यत् ॥ अहिंसा कथिता सद्भिर्योगसिद्धिप्रदायिनी । यथार्थकथनं सत्यमस्तेयमधुना शृणु ॥ चौर्य्येण वा बलेनापि परस्वहरणं च यत् । स्तेयमित्युच्यते सद्भिरस्तेयं तस्य वर्ज्जनम् ॥ सर्व्वत्र मैथुनत्यागो ब्रह्मचर्य्यमिहोच्यते । द्रव्याणामप्यनादानमापद्यपि यथेच्छया ॥ अपरिग्रह इत्युक्तो योगसिद्धैस्तु साधनम् । चान्द्रायणादिना यत्तु शरीरस्य च शोषणम् ॥ तत्तपः कथितं पुत्त्र ! साध्यायमधुना शृणु । प्रणवः शतरुद्रीयं तथाथर्व्वशिरःशिखा ॥ एतेषां यो जपः पुत्त्र ! स्वाध्याय इति कीर्त्तितः । यदृच्छालाभसन्तुष्टः सन्तोष इति पठ्यते ॥ बाह्ये चाभ्यन्तरे चापि शुद्धिः शौचं विधीयते । स्तुतिस्मरणपूजाभिर्वाङ्मनः कायकर्म्मभिः ॥ मयि भक्तिर्दृढा पुत्त्र एतदीश्वरपूजनम् । यमाश्च नियमाः प्रोक्ताः संक्षेपान्न तु विस्तरात् ॥ यमैश्च नियमैर्य्युक्तो योगी मोक्षाय संस्तुतः । स्थिरबुद्धिरसंमूढः पूर्ब्बमासनमभ्यसेत् ॥ पद्मकं स्वस्तिकं पीठं सैंहं कौक्कुटकौञ्जरम् । कौर्म्मं वज्रासनं चैव वैयाघ्रं चार्द्धचन्द्रकम् ॥ दण्डं तार्क्ष्यासनं शूलं खड्गं मुद्गरमेव च । मकरं त्रिपथं काष्ठं स्थाणुर्वा हस्तिकर्णिकम् । भीमं वीरासनं चापि वाराहं मृगवैणिकम् ॥ क्रौञ्चं चानालिकं चापि सर्व्वतोभद्रमेव च । इत्येतान्यासनान्यत्र सप्तविंशतिसंख्यया ॥ योगसंसिद्धिहेतोस्तु कथितानि तवानघ ! ॥ एषामेकतरं बद्ध्वा गुरुभक्तिपरायणः । द्बन्द्वातीतो जयेत्प्राणानभ्यासक्रमयोगतः ॥ अन्तश्चराणां वायूनां बाह्याभ्यररोधनम् । प्राणायाम इति प्रोक्तो द्विविधः स च कथ्यते ॥ अगर्भश्च सगर्भश्च तयोराद्योऽजयः स्मृतः । द्बितीयः सजयः प्रोक्तो ध्रुवं व्याहृतिमातृभिः ॥ रेचकः शून्यकश्चैव पूरकः कुम्भकस्तथा । एवं चतुर्व्विधो भेदः प्राणायामेऽत्र सूरिभिः ॥ असूनां नाडयः प्रोक्ता गमागमलयाश्रयाः । रेचनाद्रेचकः प्रोक्तः शून्यकस्तु यथास्थितः ॥ पूरकः पूरणाद्बायोस्तन्निरोधाच्च कुम्भकः । देहिनो दक्षिणे भागे पिङ्गला नाडिका स्मृता ॥ पितृयोनिरिति ख्याता भानुस्तत्राधिदैवतम् । दक्षिणेतरगा या च इडा सा नाडिका स्मृता । देवयोनिरिति ख्याता चन्द्रस्तत्राधिदैवतम् ॥ एतयोरुभयोर्म्मध्ये सुषुम्ना नाम विश्रुता ॥ पद्मसूत्रनिभा नाडी कार्य्याख्या ब्रह्मदैवतम् । ततः शून्यं निरालम्बं मध्ये स्वात्मनि योजयेत् ॥ बाह्यस्थाद्रोधनाद्बायोः शून्यकत्वं विनिर्द्दिशेत् । चन्द्रदैवतया भूयः पिबेदमृतमुत्तमम् ॥ आप्यायनं भवेत्तेन प्लावनं कल्मषस्य तु । आपूर्य्योदरसंस्थं तु उच्चैर्वायुं निरोधयेत् ॥ कुम्भकः कुम्भवत्स स्याद्रेचको वर्त्तितस्य च । उत्क्षिप्य प्रयतो वायुमजदैवत्यमानयेत् ॥ अङ्गुष्ठाग्रान्तमारभ्य ब्रह्मरन्ध्रेण मोचयेत् । सङ्कोच्य कूचिकाचक्रमूर्द्धं नीत्वा रसात्रयम् ॥ संक्षोभ्य शङ्खिनीं सम्यक्ततो ब्रह्मगुहां नयेत् । अनेन शोधयेन्मार्गमैश्वरं विमलं मुनिः ॥ क्रमेणाभ्यासयोगेन योगसंसिद्धिभाग्भवेत् । मुमुक्षूणां सदा वत्स ! योगाङ्गं योगसिद्धये ॥ विहाय वह्निमार्गं तु अङ्गुल्यास्तु शनैः शनैः । सौ



Correction: