वाचस्पत्यम्
योगक्षेम || न० योगश्च क्षेमञ्च समाहारः द्व० । अलभ्यलाम- चिन्तासहिते लब्धपरिरक्षणे “योगक्षेमं वहाम्यहम्”
शब्दकल्पद्रुमः
योगक्षेमं || क्ली (योगश्च क्षेमश्च तयोः समाहारः ।)
अनागतानयनागतरक्षणे । यथा मनुः । “दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥” बृहदङ्गिराः । “अनागतस्य चानेता आगतस्य च रक्षकः । रात्रावपि यदान्योऽस्ति तदा स्वामी न दोष- भाक् ॥” इति प्रायश्चित्ततत्त्वम् ॥ (तथा च गीतायाम् । ९ । २२ । “अनन्याश्चिन्तयन्तो मां ये जनाः पर्य्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥” “योगोऽप्राप्तस्य प्रापणं क्षेमस्तद्रक्षणं तदुभयं वहामि ।” इति शङ्कराचार्य्यः ॥ “योगं धनादि- लाभं क्षेमञ्च तत्पालनं मोक्षं वा तैरप्रार्थित- मपि अहमेव वहामि प्रापयामि ।” इति श्रीधरस्वामी ॥ योगश्च क्षेमश्च इतीतरेतरद्वन्द्बे पुंलिङ्गद्बिवचनप्रयोगो भवति ।)
यथा, —
“योगक्षेमकरं कृत्वा सीताया लक्ष्मणं ततः । मृगस्यानुपदी रामो जगाम गजविक्रमः ॥” इति भट्टिकाव्ये । ५ । ५० ॥ “फलपुष्पादेरलब्धस्य साधनं योगः शरीरादे- र्लब्धस्य पालनं क्षेमः ।” इति तट्टीकायां भरतः ॥ “योगक्षेमौ शरीरस्थितिपालने ।” इति तत्रैव जयमङ्गलः ॥