संस्कृत-शब्दकोशः

योगज योगनाविक

योगदान

वाचस्पत्यम्

योगदान ||‍ न० योगेन छलेन उपधिना वा दानम् । “योग- दानप्रतिग्रहम्” इति स्मृत्युक्ते सोपधिके दाने ।


शब्दकल्पद्रुमः

योगदानं || क्ली (योगेन दानम् ।)
छलेन दानम् । यथा, —
“योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाप्युपधिं पश्येत्तत् सर्व्वं विनिवर्त्तयेत् ॥” इति मानवे ८ अध्यायः ॥ “योगाधमनेति । योगशब्दश्छलवाची छलेन ये बन्धकविक्रयदानप्रतिग्रहाः क्रियन्ते न तत्त्वतो- ऽन्यत्रापि निःक्षेपादौ यत्र छद्म जानीयात् वस्तुतो निक्षेपादि न कृतं तत् सर्व्वं निवर्त्त- येत् ।” इति तट्टीकायां कुल्लूकभट्टः ॥



Correction: