वाचस्पत्यम्
योगनिद्रा || स्त्री योगरूपा निद्रा । प्रलये परमेश्वरस्य सर्व- जीवसंहारेच्छया योगरूपे १ व्यापारे “योगनिद्रामुपेयुषः” देवीमा० २ तदधिष्ठात्र्यां दुर्गायाञ्च ।
शब्दकल्पद्रुमः
योगनिद्रा || स्त्री (योगश्चित्तवृत्तिनिरोधलक्षणः समाधिस्तद्रूपा निद्रा ।)
दुर्गा । यथा, —
“या निम्नान्तःस्थलाधस्था जगदण्डकपालतः । विभज्य पुरुषं याति योगनिद्रेति सोच्यते ॥” इति कालिकापुराणे ६ अध्यायः ॥ (अपि च मार्कण्डेये देवीमाहात्म्ये । ८१ । ४९ । “योगनिद्रां यदा विष्णुर्ज्जगत्येकार्णवीकृते । आस्तीर्य्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥” योगेन सन्नहनोपायादिना साध्या निद्रा । वीराणां निद्रा । यथा, कामन्दकीयनीति- सारे । १५ । ४४ । “मार्गे च दुर्गे विनिविष्टसैन्यो विधाय रक्षां विधिवद्विधिज्ञः । सन्नद्धपार्श्वस्थितिवीरयोधः सेवेत साध्वीं सुखयोगनिद्राम् ॥”)