संस्कृत-शब्दकोशः

योगपीठ योगरङ्ग

योगमाया

वाचस्पत्यम्

योगमाया ||‍ स्त्री योग एव माया । भगवतो जगत्सर्जना- र्थायां शक्तौ “योगमायामुपाश्रितः” इति भाग० १० स्क० रासारम्भे तदधिष्ठात्र्यां २ दुर्गायाञ्च ।


शब्दकल्पद्रुमः

योगमाया || स्त्री (योग एव माया ।)
भगवती । सा च विष्णुमाया । यथा, —
“ततश्च शौरिर्भगवत्प्रचोदितः सुतं समादाय स सूतिकागृहात् । यदा बहिर्गन्तुमियेष तर्ह्यजा या योगमायाजनिनन्दजायया ॥” इति श्रीभागवते १० स्कन्धे ३ अध्यायः ॥



Correction: