संस्कृत-शब्दकोशः

योगरङ्ग योगरूढ

योगराजगुग्गुलु

शब्दकल्पद्रुमः

योगराजगुग्गुलुः || पुं, (योगराजाख्यो गुग्गुलुः ।)
वातरोगादीनामौषधविशेषः । यथा, —
“नागरं पिप्पलीमूलं चर्व्य मूषणचित्रकम् । भृष्टं हिङ्ग्वजमोदा च सर्षपो जीरकद्बयम् ॥ रेणुकेन्द्रयवौ पाठा विडङ्गं गजपिप्पली । कटुकातिविषा भार्गी वचा मूर्व्वा च पत्रकम् ॥ देवदारु कणा कुष्ठं रास्ना मुस्ता च सैन्धवम् । एला त्रिकण्टकः पथ्या धान्यकञ्च विभीतकम् ॥ धात्री च त्वगुशीरञ्च यवक्षारोऽखिलान्यपि । एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ यावन्त्येतानि चूर्णानि तावदेवात्र गुग्गुलुः । संमर्द्य सर्पिषा पश्चात् सर्व्वं संमिश्रयेच्च तत् ॥ एकं पिण्डं ततः कुर्य्यात् धारयेत् घृतभाजने । गुटिकाष्टकमात्रास्तु खादेत्ताश्च यथोचितम् ॥ यथोचितमिति दोषकालानलाद्यपेक्षया ॥ परिभाषा च । आदौ शाणोन्मितं खादेत् ततः कर्षार्द्ध- मात्रकम् । ततः कर्षमितं खादेत् गुग्गुलुं क्रमतो नरः ॥ दिनानां सप्तके पूर्ब्बे गुग्गुलोः शाणमाहरेत् । द्बितीये कर्षमर्द्धन्तु पूर्णं कर्षं ततः परम् ॥ गुग्गुलुर्योगराजोऽयं महान्मुख्यो रसायनः । मैथुनाहारपानानां नियमो नात्र विद्यते ॥ सर्व्वान् वातामयान् हन्यात् आमवातमप- स्मृतिम् । वातरक्तं तथा कुष्ठं तथा दुष्टव्रणानपि ॥ अर्शांसि ग्रहणीरोगं प्लीहगुल्मोदराण्यपि । आनाहं मन्दमग्निञ्च श्वासं कासमरोचकम् ॥ प्रमेहं नाभिशूलञ्च कृमिं क्षयमुरोग्रहम् । शुक्रदोषं रजोदोषमुदावर्त्तं भगन्दरम् ॥ * ॥
रास्नादिक्वाथसंयुक्तः सर्व्ववातामयान् हरेत् । काकोल्यादिश्रितात् पित्तं कफमारखधादिना ॥ दार्व्वीश्रितेन मोहांश्च गोमूत्रेण च पाण्डुताम् । मधुना मेदसो वृद्धिं कुष्ठं निम्बशृतेन च ॥ छिन्नाक्वाथेन वातास्रं शोफं मूलकजात् शृतात् । पाटलाक्वाथसहितो विषं मूष्कसम्भवम् ॥ त्रिफलाक्वाथसंयुक्तो दारुणां नेत्रवेदनाम् । पुनर्नवादेः क्वाथेन हन्ति सर्व्वोदरानपि ॥ * ॥
अत्र रास्नादिक्वाथो यथा, — रास्ना पुनर्नवा शुण्ठी गुडूच्येरण्डजं शृतम् । सप्तधातुगते वाते सामे सर्व्वाङ्गगे पिबेत् ॥ इति योगराजो गुग्गुलुः ॥” इति भावप्रकाशः ॥



Correction: