संस्कृत-शब्दकोशः

योगारङ्ग योगासन

योगारूढ

वाचस्पत्यम्

योगारूढ ||‍ पु० योगमारूढः आ + रुह—क्त । “यदा तु ने- न्द्रियार्थेषु न कर्मष्वनुषज्जते । सर्वसंकल्पसन्त्यासी यो- गारूढस्तदोच्यते” इत्युक्ते योगिभेदे “योगारूढस्य तस्यैव शमः कारणमुच्यते” इति गीता ।


शब्दकल्पद्रुमः

योगारूढः || त्रि (योगं विषयनिवृत्तिं यमादिकं वा आरूढः ।)
इन्द्रियभोग्येषु शब्दादिषु तत्साधन- कर्म्मसु चानासक्तः । तस्य लक्षणं यथा, —
“यदा हि नेन्द्रियार्थेषु न कर्म्मस्वनुषज्जते । सर्व्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥” इति श्रीभगवद्गीतायाम् । ६ । ४ ॥ * ॥
“कीदृशोऽयं योगारूढो यस्य शमः कारण- मुच्यते इत्यत्राह यदेति । इन्द्रियार्थेषु इन्द्रिय- भोग्येषु शब्दादिषु तत्साधनेषु च कर्म्मसु यदा नानुषज्जते आसक्तिं न करोति । तत्र हेतुः आसक्तिमूलभूतान् सर्व्वान् भोगविषयान् कर्म्मविषयांश्च सङ्कल्पान् संन्यसितुं त्यक्तुं शीलं यस्य सः । तदा योगारूढ उच्यते ।” इति तट्टी- कायां श्रीधरस्वामी ॥



Correction: