संस्कृत-शब्दकोशः

योगारूढ योगिदण्ड

योगासन

वाचस्पत्यम्

योगासन ||‍ न० योगार्थमासनम् । १ योगशास्त्रोक्ते स्वस्तिकादौ आसनमेदे हेमच० । “अथ योगासनं वक्ष्ये यत् कृत्वा योगिवद्भवेत् । ऊर्वोः पादतलद्वन्द्वं स्वाङ्के बद्ध्वा करद्वयम्” इति रुद्रजा० उक्ते २ आसनभेदे च ।


शब्दकल्पद्रुमः

योगासनं || क्ली (योगस्यासनं योगसाधनमासन- मिति वा ।)
ब्रह्मासनम् । ध्यानासनम् । इति हेमचन्द्रः । ३ । ५०३ ॥ (तत्तु पद्मासनादि । यथा, भट्टिकाव्ये । ७ । ७७ । “इत्युक्त्वा सर्व्व एवास्थुर्बद्ध्वा योगासनानि ते ॥” “योगासनानि पद्मासनानि ।” इति तट्टीकायां जयमङ्गलभरलमल्लिकौ ॥)



Correction: