संस्कृत-शब्दकोशः

योगिनी योगीश्वर

योगिन्

वाचस्पत्यम्

योगिन् ||‍ त्रि० युज—घिनुण् । “आत्मौपम्येन सर्वत्र समं प- श्यति योऽर्जुनः । सुखं वा यदि वा दुःखं स योगी परमो मतः” गीताद्युक्तयोगयुक्ते २ संयोगवति च त्रि० स्त्रियां ङीप् । सा च तत्र ३ दुर्गायां ४ तच्शक्तिभेदेषु अक्षोभ्यादिषु चतुःषष्टिप्रकारेषु देवताप्रतिमाशब्दे ३९९५ पृ० दृश्यम् । “प्रतिपन्नवमी पूर्वे रामरुद्रौ च पावके । शरस्त्रयोदशी याम्ये वेदमासौ च नैरृते । षष्ठी चतु- र्दशी पश्चात् वायव्यां मुनिपूर्णिमे । द्वितीया दशमी यक्षे ऐशान्यां चाष्टमी कुहूः” इत्युक्तेषु पूर्वादिदिग्- भेदाद् ५ तिथिभेदेषु तत्फलं वामे शुभकरी प्रोक्ता पृष्ठे सर्वार्थसाधिनी” ज्यो० त० । आवश्यकत्वे यामार्द्ध- भेदे तस्याः शुभत्वं समयामृते उक्तं यथा “यस्यां दिश्युदयं याति ततो यामार्द्धभुक्तिका । भ्रमन्ती तेन मार्गेण भवेत्तत्कालयोगिनी । तेन “प्राचीधनेश्वर- हुताशनकौणपेयवायव्यवारुणयमाधिपशङ्करेषु । एषु क्रमान्निवसति प्रतिपन्नवम्योः पृष्ठे स्थिता शुभकरी गिरिराजपुत्री” । ६ मङ्गलापिङ्गलादिदशाभेदे च दशाशब्दे ३४८४ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

योगी || [न्] पुं, (योगः अस्त्यस्येति । योग + इनिः । यद्बा, युज समाधौ । युजिर् योगे वा + “संपृचानुरुधोत ।” ३ । २ । १४२ । इति घिनुण् ।)
योगयुक्तः । तस्य लक्षणादि यथा, —
“स्वर्णे लोष्टे गृहेऽरण्ये सुस्निग्धे चन्दने तथा । समता भावना यस्य स योगी परिकीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः ॥ अपि च । “आत्मौपम्येन सर्व्वत्र सभं पश्यति योऽर्ज्जुन ! । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥” इति श्रीभगवद्गीतायाम् ७ अध्यायः ॥ अन्यच्च । ऋषय ऊचुः । “भगवन् ! देवतारिघ्न ! हिरण्यादिनिसूदन ! । चत्वारो ह्याश्रमाः प्रोक्ता योगी नाम क उच्यते ॥ सर्व्वकर्म्माणि संन्यस्य समाधिमचलं श्रितः । य आस्ते निश्चलो योगी स सन्न्यासी न पञ्चमः ॥ सर्व्वेषामाश्रमाणान्तु द्बैविध्यं श्रुतिदर्शितम् । ब्रह्मचार्य्युपकुर्व्वाणो नैष्ठिको ब्रह्मतत्परः ॥ योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् । उपकुर्व्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ उदासीनसाधकश्च गृहस्थो द्विविधो भवेत् । ऋणानि त्रीण्युपाहृत्य त्यक्त्वा भार्य्याधनादिकम् ॥ एकाकी यस्तु विचरेदुदासीनः स मोक्षिकः । कुटुम्बभरणायत्तः साधकोऽसौ गृही भवेत् ॥ तपस्तप्यति योऽन्येन यजेद्देवान् जुहोति च । स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥ तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् । सन्न्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ योगाभ्यासरतो नित्यमारुरुक्षुर्ज्जितेन्द्रियः । ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते परमेष्ठिकः ॥ यश्चात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः । सम्यग्दर्शनसम्पन्नः स योगी भिक्षुरुच्यते ॥ ज्ञानसन्न्यासिनः केचिद्वेदसन्न्यासिनः परे । कर्म्मसन्न्यासिनः केचिद्विविधाः परमेष्ठिकाः ॥ योगी च त्रिविधो ज्ञेयो भौतिकः सांख्य एव च । तृतीयोऽन्याश्रमी प्रोक्तो योगमुत्तममास्थितः ॥” इति कौर्म्मे २ अध्यायः ॥ (तेषां स्त्रीसङ्गनिषेधो यथा, —
“यदि सङ्गं करोत्येव बिन्दुस्तस्य विनश्यति । आयुःक्षयो बिन्दुहीनादसामर्थ्यञ्च जायते ॥ तस्मात् स्त्रीणां सङ्गवर्ज्यं कुर्य्यादभ्यासमाद- रात् । योगिनोऽङ्गस्य सिद्धिः स्यात् सततं बिन्दुधार- णात् ॥” इति दत्तात्रेयसंहिता ॥ तेषां पथ्यं यथा, हठयोगप्रदीपिकायाम् । “गोधूमशालियवषष्टिकशोभनान्नं क्षीराद्यखण्डनवनीतसितामधूनि । शूण्ठीकपोलकफलादिकपञ्चशाकं मुद्गादिदिव्यमुदकञ्च यमीन्द्रपथ्यम् ॥” तेषामपथ्यं यथा, तत्रैव । “कट्वम्लतिक्तलवणोष्णहरीतशाव सौवीरतैलतिलसर्षपमत्स्यमद्यम् । आजादिमांसदधितक्रकुलत्थकोल- पिन्याकहिङ्गुलसुनाद्यमपथ्यमाहुः ॥”)



Correction: