शब्दकल्पद्रुमः
योगेश्वरी || स्त्री बन्ध्याकर्कोटकी । इति भाव- प्रकाशः ॥ (योगानामीश्वरी । दुर्गा । यथा, —
“त्वचं योगेश्वरी तथा — ।” इति चण्डीकव- चम् ॥ योगयुक्ते, त्रि । यथा, मार्कण्डेये । ९७ । ८ । “प्रजापतेः कश्यपाय सोमाय वरुणाय च । योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥”)