वाचस्पत्यम्
योटक || त्रि० युट—ण्वुल् । १ मेलके विवाहमेलकश्च उप- यमशब्दे १२४८ पृ० दृश्यः ।
शब्दकल्पद्रुमः
योटकः || पुं, योटनम् । मेलनमिति यावत् । विवाहे राशियोटक-ग्रहयोटक-नक्षत्रयोटक-गणयोटक- वर्णयोटक-योनियोटक-वर्गयोटकभेदेन सप्तविधो योटकः । तत्र राशियोटके षडष्टकनवपञ्च- मद्विद्वादशविषमसप्तकयोगा निषिद्धाः । तदाह श्रीपतिसंहितायाम् । “षडष्टकं त्रिकोणञ्च द्बिद्बादशकमेव च । परस्परं जन्मराशेस्त्यक्त्वा कन्याकुमारयोः ॥ षडष्टके भवेद्दोषो वैधव्यं मृत्युरेव वा । त्रिकोणे पुत्त्रहानिः स्यात् धनहानिर्धनव्यये ॥ पुरुषस्याष्टमे कन्या कन्यायाः षष्ठके पुमान् । शुभं षडष्टकं ज्ञेयं नोद्बाहे दूषणं भवेत् ॥ नवपञ्चमे । पुंसो गृहात् सुतगृहे सुतहा च कन्या धर्म्मे स्थिता सुतवती पतिवल्लभा च । द्बिद्वादशे धनगृहे धनहा च कन्या रिप्फे स्थिता धनवती पतिवल्लभा च ॥ योटके सप्तके मेषतुलौ युग्महयौ तथा । सिंहघटौ सदा वर्ज्यौ मृतिस्तत्राब्रवीच्छिवः ॥ राजयोटकमाह दीपिकायाम् । एकराशौ च दम्पत्योः शुभं स्यात् समसप्तके । चतुर्थदशके चैव तृतीयैकादशे तथा ॥” इति राशियोटकविचारः ॥ * ॥
ग्रहयोटके ग्रहशत्रुयोगो निषिद्धः । कन्यावर- राश्यधिपग्रहयोः शत्रुत्वे ग्रहशत्रुयोगः । तत्र विवाहे रोगादिः फलम् । तदाह गर्गः । मरणं भावविरोधे ग्रहरिपुभावे चाचिरेण रोगादिः । इति ग्रहयोटकविचारः ॥ * ॥
अन्ये योटकाः प्रपञ्चभयान्न लिखिताः । इति ज्योतिषम् ॥ ग्रन्थान्तरे जोटकशब्दश्चवर्गतृतीयादिश्च ॥