संस्कृत-शब्दकोशः

योनि योनिज

योनिकन्द

शब्दकल्पद्रुमः

योनिकन्दः || पुं, (योनौ कन्द इव ।)
योनिरोग- विशेषः । तस्य निदानं यथा, —
“दिवास्वप्नादतिक्रोधाद्व्यायामादतिमैथुनात् । क्षताच्च नखदन्ताद्यैर्व्वाताद्याः कुपिता यथा ॥ वाताद्याः कुपिता यथा । यथा निदानकुपिता वाताद्याः । रूपमाह । ‘पूयशोणितसङ्काशं लकुचाकृतिसन्निभम् । जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः ॥’ लकुचाकृतिसन्निभं लकुचाकाराकारम् । गुडकमत्र विशेष्यं बोद्धव्यम् ॥ * ॥
वातजादि- भेदेन रूपभेदमाह । ‘रूक्षं विघर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत् । दाहरागज्वरयुतं विद्यात् पित्तात्मकन्तु तत् ॥ तिलपुष्पप्रतीकाशं कण्डूयन्तं कफात्मकम् । सर्व्वलिङ्गसमायुक्तं सान्निपातात्मकं भवेत् ॥’ अस्य चिकित्सा । योनिशब्दे द्रष्टव्या ।” इति भावप्रकांशः ॥



Correction: