वाचस्पत्यम्
योनिज || न० योनिस्थानात् जायते जन—ड । देहभेदे १ जरा- युजे २ अण्डजे च देहे ।
शब्दकल्पद्रुमः
योनिजं || त्रि (योनेर्ज्जायते इति । जन् + डः ।)
योनिनिःसृतशरीरादिकम् । यथा, —
“सा च त्रिधा भवेद्देह इन्द्रियं विषयस्तथा । योनिजादिर्भवेद्देह इन्द्रियं घ्राणलक्षणम् ॥” इति भाषापरिच्छेदः ॥ “योनिजादीति । योनिजमयोनिजञ्चेत्यर्थः । योनिजमपि जरायुजमण्डजञ्च । जरायुजं मानु- षादीनां अण्डजं सर्पादीनाम् । अयोनिजं स्वेदजोद्भिदादिकम् । स्वेदजाः कृमिदंशाद्याः । उद्भिदस्तरुगुल्माद्याः । नारकिणां शरीरमप्य- योनिजम् ।” इति सिद्धान्तमुक्तावली ॥