संस्कृत-शब्दकोशः

योनिमुद्रा योन्यर्शस्

योनिरोग

वाचस्पत्यम्

योनिरोग ||‍ पु० ६ त० । षोडशविधे भगरोगभेदे “उदावृत्ता १ तथा वन्ध्या २ विप्लुता ३ च परिप्लुता ४ । वातला ५ योनिजो रोगो वातदोषेण पञ्चधा । पञ्चधा पित्तदोषेण तत्रादौ लोहिताक्षरा १ । प्रस्रंसिनी २ बामनी ३ च पुत्रघ्नी ४ पित्तला ५ तथा । अत्यानन्दा १ कर्णिनी २ च चरणा ३ नन्द- पूर्विका ४ । अतिपूर्वापि ५ सा ज्ञेया श्लेष्मला ५ च कफादिमाः । षण्ड्यण्डिनी १ । २ च विकृता ३ मूचीवक्त्रा ४ त्रिदोषिणी ५ । पञ्चैता योनयः प्रोक्ताः सर्वदोषप्रकोपतः” । अथ तासां लक्षणान्याह “सफेनिलमुदावृत्ता १ रजः कृच्छ्रेण मुञ्चति । बन्ध्या २ निरार्त्तवा ज्ञेया विप्लुता ३ नित्यवेदना । परिप्लु- तायां ४ भवति ग्राम्यधर्भे त्वरा भृशम् । वातला ५ कर्कशा- स्तब्धाशूलनिस्तोदपीडिता । चतसृष्वपि चाद्यासु भवन्त्य- निलवेदनाः” । अनिलवेदनास्तोदादयः वातलायां त्वति वातवेदना बोद्धव्या वातलेत्यन्वयात् । “सदाहं क्षरते रक्तं यस्याः सा लोहिताक्षरा १ । प्रस्रंसिनी २ संसूते च क्षोभिता दुष्प्रजायिनी” । “क्षोभिता विमर्द्दिता स्रंसते स्वस्थानाच्च्यवते दुष्प्रजायिनी दुष्टप्रजननशीला । सतत मुद्गिरेद्वीर्य्यं वामनी ३ रजसा युतम् । स्थितं हि पातयेद्- गर्मं पुत्रघ्नी ४ रक्तसंस्रवात्” । पुत्रशब्दोऽत्रापत्योपलक्षकः । “अत्यर्थं पित्तला ५ योनिर्दाहपाकज्वरान्विता । चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत्” । अत्यानन्दा १ न सन्तोषं ग्राम्यधर्भेण विन्दति । कर्णिन्यां २ कर्णिका योनौ श्लेष्मा- सृग्भ्यां प्रजायते” । कर्णिका मांसस्य कर्णिकाकारो- ग्रन्थिः । “मैथुने चरणा ३ पूर्ब पुरुषादतिरिच्यते । अति- रिच्यते रजोमुञ्चतीत्यर्थः । बहुशश्चातिचरणा ४ तयोर्वीर्य्यं न तिष्ठति” । बहुशः वारंवारमतिरिच्यते तयोः चरणा- तिचरणयोः । “श्लेष्मला ५ पिच्छला योनिः कण्डूयुक्ताति शीतला । चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् । अनार्त्तवाऽस्तनी षण्डी १ खरस्पर्शा च मैथुने” । अस्तनी ईषत्स्तनौ यस्याः सा अत्र लक्ष्या षण्डी । महामेढ्र- गृहीताया बालाया अण्डिनी २ भवेत् । महामेढ्र पुरुषस्तेन ग्रहीतायाः बालायाः मूक्ष्मयोनिच्छिद्रायाः अण्डिनी ३ अण्डवल्लम्बमाना योनिर्भवति” । विवृतां मूची वक्त्राञ्चाह “विवृता ३ च महायोनिः सूचीवक्त्राति ४ संवृता । त्रिदोषजामाह सर्वलिङ्गसमुत्थानं सर्वदोषप्रकीपजम् । चतऌष्वपि च द्यासु सर्वलिङ्गनिदर्शनम्” । अयासाध्यां योनिमाह । “पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः । पञ्च षण्डीप्रभृतयः” अथ योनिकन्दस्य निदानमाह । “दिवास्वप्नादतिक्रोधात् व्यायामादतिमैथुनात् । क्षताच्च नखदन्ताद्यै र्वाताद्याः कुपिता यथा” । यथास्वनिदानं कुपिता वातादाः । रूपभाह “पूयशोणितसङ्काशं लकुचा- कृतिसन्निभम् । जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः” । लकुचाकृतिसन्निभं लकुचाकारं गुडकमत्र विशेष्यं बोघ्यम्” । वातजादिभेदेन रूप्रमाह । “रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत् । दाहराग- ज्वरयुतं विद्यात्पित्तात्मकं तु तम् । तिलपुष्पप्रतीकाशं कण्डूमन्तं कफा प्रकम् । सर्वलिङ्गसमायुक्तं सन्नि- पातात्मकं वदेत्” ।


शब्दकल्पद्रुमः

योनिरोगः || पुं, (योनेः रोगः ।)
भगगदः ॥ (यथा, सुश्रुते । १ । ४५ । “शूलोदावर्त्तातिसारप्रवाहिकायोनिरोगगर्भ- स्रावरक्तपित्तश्रमक्लमहरम् ॥” * ॥
)
अस्य निदानादिर्योनिशब्दे द्रष्टव्यः ॥



Correction: