संस्कृत-शब्दकोशः

योषा योषित्

योषिता

शब्दकल्पद्रुमः

योषिता || स्त्री (योषित् + टाप् ।)
नारी । यथा, “स्त्री वधूरबला नारी प्रिया रामा जनिर्ज्जनी । योषा योषिद्योषिता च जोषिज्जोषा च जोषिता ॥” इति शब्दरत्नावली ॥ (यथा, मुण्डकोपनिषदि । २ । १ । ५ । “तस्मादग्निः समिधो यस्य सूर्य्यः सोमात् पर्जन्य ओषधयः पृथिव्याम् । पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥”)



Correction: