वाचस्पत्यम्
योषित् || स्त्री युष—इति । गार्य्याम् अमरः । हलन्तत्वाद्वा टाप् । योषिताप्यत्र शब्दर० ।
शब्दकल्पद्रुमः
योषित् || स्त्री (योषति पुमांसं युष्यते पुंभिरिति वा । युष् + “हृसृरुहियुषिभ्य इतिः ।” उणा० १ । ९९ । इति इतिः ।)
नारी । इत्यमरः । १ । ६ । २ ॥ (यथा, मेघदूते । १ । ३९ । “गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ॥”)
तस्या अवध्यत्वं यथा, वह्निपुराणे । “तं प्रेक्ष्य भरतं श्रेष्टं शत्रुघ्नो वाक्यमब्रवीत् । अवध्याः सर्व्वभूतानां योषितः क्षम्यतामिति ॥”