वाचस्पत्यम्
यौतक || न० युते विवाहकालेऽधिगतम् वुण् । विवाहकाले लब्धे धने हला० । इति दायभागानुसारिणः । वीरमि० तु “यु मिश्रणे इति धात्वनुसारात् विवाहकाले एकासनोप- विष्टयोर्बधूवरयोर्यद् बन्धुभिर्दीयते तत्युतयोरिदं यौतक- मिति व्युत्पत्त्या यौतकमित्युच्यते” इत्युक्तम् अत एव निघण्टौ युतयोर्यौतकमित्युक्तम् । अन्ये तु विवाहे स्त्रीपुंसावेकशरोरतया मिश्रितौ भवत इति “अस्थिभि- रस्थीनि मांसैर्मांसानि” इत्यादिश्रुत्या तथोक्तेः विवाहेन युतयोरिदम्” इत्याहुः । वस्तुतः विवाहकालोत्तर- मेकासनोप्रविष्टयोरेव दत्तं धनं यौतकं लोकप्रसिद्धं वीरमि० उक्तं साधीयः । “मातुश्च यौतकं यत् स्यात् कुमारी भाग एव सः” मनुः ।
शब्दकल्पद्रुमः
यौतकं || क्ली (युतकयोर्बधूवरयोरिदम् । युतक + अण् । युतकमेवेति । स्वार्थे अण् वा ।)
यौतु- कम् । इति हलायुधरायमुकुटौ । २ । ८ । २८ ॥ (यथा, मनुः । ९ । १३१ । “मातुस्तु यौतकं यत् स्यात् कुमारीभाग एव सः ॥” अस्य विशेषविवरणन्तु यौतुकशब्दे द्रष्टव्यम् ॥)