संस्कृत-शब्दकोशः

यौधाजय यौधेय

यौधिष्ठिर

शब्दकल्पद्रुमः

यौधिष्ठिरं || त्रि (युधिष्ठिरस्य इदमिति । युधिष्ठिर + अण् ।)
युधिष्ठिरसम्बन्धि । यथा, —
“सा च यौधिष्ठिरी सेना गाङ्गेयशरताडिता । प्रतिपत्पाठशीलानां विद्येव तनुतां गता ॥” इति महाभारतम् ॥ (युधिष्ठिरस्यापत्ये, पुं । यथा, महाभारते । ६ । ५० । ५९ । “यौधिष्ठिरः सुसंक्रुद्धः सौवलं निशितैः शरैः । व्यदारयत संग्रामे मघवा इव दानवम् ॥” वासुदेवस्य पत्नीविशेषे, स्त्री । यथा, हरिवंशे । १६० । २० — २१ । “कौशिक्यां सुतसोमायां यौधिष्ठिर्य्यां युधिष्ठिरः । कापाली गरुडश्चैव जज्ञाते चित्रयोधिनौ ॥ एवमादीनि पुत्त्राणां सहस्राणि निबोध मे । दशायुतं समाख्याता वासुदेवस्य ते सुताः ॥”)



Correction: