वाचस्पत्यम्
यौधेय || पु० योध एव आयुधजीविसंघत्वात् स्वार्थे ढक् १ योद्धरि । २ उत्तरस्थदेशभेदे पु० वृ० स० १४ अ० । बुधायाः अपत्यम् “द्व्यचः” पा० ढक् । २ युधाया अपत्ये । ततःस्वार्थे अञ् शार्ङ्गर० स्त्रियां ङीन् । यौधेयी ।
शब्दकल्पद्रुमः
यौधेयः || पुं, (योधमर्हतीति । योध + ढञ् । यद्बा, “पार्श्वादियौधेयादिभ्यामणञौ ।” ५ । ३ । ११७ । इति स्वार्थे अञ् ।)
योद्धा । इति सिद्धान्तकौमुकी ॥ (युधिष्ठिरपुत्त्रः । स च शैव्य- राजदौत्रित्रः । यथा, महाभारते । १ । ९५ । ७६ । “युधिष्ठिरस्तु गोवासनस्य शैव्यस्य देविकां नाम कन्यां स्वयम्बरां लेभे । तस्यां पुत्त्रं जनयामास यौधेयं नाम ॥” नृगराजपुत्त्राः यौधेया इति ख्याताः । यथा, हरिवंशे । ३१ । २५ । “दृषद्बत्यास्तु संजज्ञे शिविरौशीनरो नृपः । शिवेस्तु शिवयस्तात ! यौधेयास्तु नृगस्य ह ॥”)