वाचस्पत्यम्
यौन || त्रि० योनितः योनिसम्बन्धात् आगतम् अण् । १ योनितः प्राप्ते । योनेरयमण । २ वैवाहिकसम्बन्धे पु० । प्रा० वि० बौधायनः “संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद् यौनात् सद्यो हि शयनाशनात्” । सुमन्तुः “यश्चैतेर्यौनमौखस्रौव्यादीनां सम्बन्धानामन्यतमेन सह सम्पर्कमियात् तस्याप्येतदेव प्रायश्चित्तं विदध्यादिति” ।
शब्दकल्पद्रुमः
यौनं || क्ली (योनेरिदमिति । योनि + अण् ।)
योनिसम्बन्धाधीनपापम् । यथा । बौधायनः । “संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनात् सद्यो हि शयना- शनात् ॥” सुमन्तुः । यश्चैतैर्यौनमौखश्रौवादीनां सम्बन्धा- नामन्यतमेन सह सम्पर्कमियात् तस्याप्येतदेव प्रायश्चित्तं विदध्यादिति । इयात् कुर्य्यात् । एतदेवेति द्वादशवार्षिकमित्यर्थः । अत्र याज- नादीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते । इति प्रायश्चित्तविवेकः ॥ (उत्पत्तिकारणम् । यथा, महाभारते । १३ । १०२ । २५ । “यत्राग्नियौनाश्च वसन्ति लोका अब्योनयः पर्व्वतयोनयश्च ॥” उत्तरापथजातजातिविशेषे, पुं । यथा, महा- भारते । १२ । २०७ । ४३ । “उत्तरापथजन्मानः कीर्त्तयिष्यामि तानपि । यौनकाम्भोजगान्धराः किराता वर्व्वरैः सह ॥”)