वाचस्पत्यम्
यौवन || न० यूनो भावः अण । १ तारुण्ये “आ षोडशाद् भवेद् बालस्तरुणस्तत उच्यते । वृद्धः स्यात् सप्तते- रूर्ध्वम्” इत्युक्ते २ अवस्थाभेदे ।
शब्दकल्पद्रुमः
यौवनं || क्ली (युवन् + “हायनान्तयुवादिभ्योऽण् ।” ५ । १ । १३० । इति अण् ।)
यूनो भावः । तत्पर्य्यायः । तारु ण्यम् २ । इत्यमरः ॥ वयः ३ इति जटाधरः ॥ तत्तु षोडशवर्षमारभ्य सप्तति-। वर्षपर्य्यन्तम । यथा, —
“आषोडशाद्भवेद्वालस्तरुणस्तत उच्यते । बृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥” इति स्मृतिः ॥ नवयौवनलक्षणं यथा, —
“दरोद्भिन्नस्तनं किञ्चित् चलाक्षं मेदुरस्मितम् । मनागभिस्फूरद्भावं नव्यं यौवनमुच्यते ॥” इत्युज्ज्वलनीलमणिः ॥ (“गर्भेश्वरत्वम् अभिनवयौवनत्वमप्रतिरूपत्वम- मानुषशक्तित्वञ्चेति महतीयं खल्वनर्थपरम्परा । सर्व्वाविनयानामेकैकमप्येषामायतनम् । किमुत समवायः । यौवनारम्भे च प्रायः शास्त्रजल- प्रक्षालननिर्म्मलापि कालुष्यमुपयाति बुद्धिः । अनुज्झितधवलतापि सरागैव भवति यूनां दृष्टिः । अपहरति च वात्येव शुष्कपत्रं समु- द्भूतरजोभ्रान्तिरदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः । इन्द्रियहरिणहारिणी च सततमतिदुरन्तेयमुपभोगमृगतृष्णिका । नव- यौवनकषायितात्मनश्च सलिलानीव तान्येव विषयस्वरूपाण्यास्वाद्यमानानि मधुरतराण्या- पतन्ति मनसः । नाशयति च दिङ्मोह इवो- न्मार्गप्रवर्त्तकः पुरुषमत्यासङ्गो विषयेषु ।” इति कादम्बर्य्यां चन्द्रापीडं प्रतिशुकनाशोपदेशः ॥)
नवयौवनकारकमौषधं यथा, —
“अश्वगन्धानागबलागुडमांसनिषेविणाम् । रूपं भवेद्यथा तद्वत् नवयौवनचारिणाम् ॥” इति गारुडे १८९ अध्यायः ॥