वाचस्पत्यम्
यौवत || न० युवतीनां समूहः अण् । युवतिसमुदाये अमरः ।
शब्दकल्पद्रुमः
यौवतं || क्ली (युवतीनां समूहः । युवति + “भिक्षादिभ्योऽण् ।” ४ । २ । ३८ । इति अण् । पुंवद्भावाभावश्च ।)
युवतिसमूहः । इत्यमरः । २ । ६ । २२ ॥ (यथा, गीतगोविन्दे । १० । १५ । “रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा- वहो विबुधयौवतं वहसि तन्वि ! पृथ्वीगता ॥” युवतिभिः कृतमिति । नृत्यविशेषः । यथा, सङ्गीतदामोदरे । “मधुरं बहुलीलाभिर्नटीभिर्यत्र नृत्यते । वशीकरणविद्याभं तल्लास्यं यौवतं मतम् ॥”)
परिमाणम् । इति अमरटीकायां भरतः ॥