शब्दकल्पद्रुमः
यौवनपिडका || स्त्री (यौवने पिडका ।)
युवकाले मुखे जातः क्षुद्रस्फोटकः । वयस्फोडा इति भाषा ॥ (यथा, सुश्रुते निदानस्थाने । १३ । “यौवनपिडका पद्मिणी कण्टका जतुमणिरि- त्यादि ॥”)
तल्लक्षणं यथा, —
“शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः । जायन्ते पिडका यूनां वक्त्रे या मुखदूषिकाः ॥” इति सुश्रुते । १ । १४ अध्यायः ॥ अस्याश्चिकित्सा मुखदूषिकाशब्दे द्रष्टव्या ॥