शब्दकल्पद्रुमः
यौवनाश्वः || पुं, (युवनाश्वस्यापत्यमिति । युवनाश्व + अण् ।)
मान्धातृराजः । इति त्रिकाण्डशेषः ॥ अपि च । “यौवनाश्वोऽथ मान्धाता चक्रवर्त्त्यवनीप्रभुः । सप्तद्वीपवतीमेकः शशासाच्युततेजसा ॥ ईजे च यज्ञं क्रतुभिरात्मविद्भूरिदक्षिणैः ॥ सर्व्वदेवमयं देवं सर्व्वात्मकमतीन्द्रियम् ॥ द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विजः । धर्म्मो देशश्च कालश्च सर्व्वमेतद्यदात्मकम् ॥ यावत् सूर्य्य उदेति स्म यावच्च प्रतितिष्ठति । तत् सर्व्वं बौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ शशविन्दोर्दुहितरि बिन्दुमत्यामधान्नृपः । पुरुकुत्समम्बरीषं मुचुकुन्दञ्च योगिनम् ॥ तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥” इति श्रीभागवते ९ स्कन्धे ६ अध्यायः ॥