संस्कृत-शब्दकोशः

यौवनाश्वक यौष्माकीन

यौष्माक

वाचस्पत्यम्

यौष्माक ||‍ त्रि० युष्माकमिदम् युष्मद् + अण् युष्माकादेशः । यु- ष्मत्सम्बन्धिनि । खञ् । यौष्मकीनोऽप्यत्र त्रि० । इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य सङ्कलिते वाचस्पत्ये यकारादि- शब्दार्थसङ्कलनम् ।


शब्दकल्पद्रुमः

यौष्माकं || त्रि (युष्मद् + अण् । “तस्मिन्नणि च युष्माकास्माकौ ।” ४ । ३ । २ । इति प्रकृते- र्युष्मकादेशः ।)
युष्मत्सम्बन्धि । युष्माकमिदं इत्यर्थे ष्णप्रत्ययेन निष्पन्नम् । इति मुग्धबोध- व्याकरणम् ॥ (यथा, कथासरित्सागरे । ११२ । २०५ । “इत्याद्यस्मासु जल्पत्सु मिलितेष्वत्र तत्क्षणम् । विद्याधरो धूमशिखो यौष्माकोऽवातरद्दिवः ॥”)



Correction: